________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः चिकित्सितस्थानम् ।
२५६५ शीतं गुरु स्निग्धमचेष्टनश्च संपूरणं अस्वपनं दिवा च। गुल्मस्य हेतुः कफसम्भवस्य सर्वस्तु दुष्टो निचयात्मकस्य ॥११॥ स्तैमित्यशीतज्वरगात्रसाद-हृल्लासकासारुचिगौरवाणि। .
शैत्यं रुगल्पा कठिनोन्नतत्वं गुल्मस्य रूपाणि कफात्मकस्य ॥१२॥ निमित्तलिङ्गान्युपलभ्य गुल्मे द्विदोषजे दोषबलाबलश्च। . व्यामिश्रलिङ्गानपरांस्तु गुल्मांस्त्रीनादिशेदोषधकल्पनार्थम् ॥१३॥ - गङ्गाधरः-कफजहेतुमाह-शीतमित्यादि। शीतं वीर्यतः। अचेष्टनं सव्वदावस्थानम्। सम्पूरणं दध्यादिद्रवम्। सव्वस्तु वातपित्तकफानां गुल्मानां य इमे हेतव उक्ताः सर्च एव तेषां व्यस्तः समस्तो वा निचयात्मकस्य सन्निपातात्मकस्य हेतुरित्यर्थः ॥११॥
गङ्गाधरः-कफजलिङ्गमाह-स्तैमित्येत्यादि । शीतज्वरेतिवचनेन शीते लाभे अत्यमिति देहस्य शीतताख्यापनार्थम् । कठिनोन्नतत्वं गुल्माकारस्य ॥१२॥ ___ गङ्गाधरः-अथानुबन्धतो द्वन्द्वलाङ्गीकारात् चिकित्साविशेषार्थमाहनिमित्तेत्यादि। द्वयोर्दोषयोतिपित्तयोर्वा वातकफयोर्वा पित्तकफयोर्वा उक्तनिमित्ताधिक्याल्पखाभ्यामुक्तलिङ्गाधिक्याल्पवाभ्यां दोषयोद्वयोबलाबलमुपलभ्य व्यामिश्रलिङ्गान् विदोषीलङ्गान् अपरानुद्देशाधिकान् त्रीन् वातपित्तज. रुधिरश्च दृष्टमित्यनेन दृष्टाद रुधिरान्मलमूतस्य पित्तस्य जन्म दर्शयति । शीतमित्यादि कफगुल्म. हेतुलक्षणकथनम्। अवा-तरे हेतुखयकथनावसाने दोषत्रयमेलकस्य कार्यमाह - सर्वस्तु दृष्टो निचयात्मकस्येति। निचयात्मकः सानिपातिकः। सान्निपातिकश्च निचयरूपगुल्मजन्यतया व्यपदेशेन विकृतिविषमसमवायात् संयोगमहिम्ना च दर्शयति ॥९-११॥
चक्रपाणिः-औत्पातिक निचयगुल्ममभिधाय प्रकृतश्लेष्मगुल्मलक्षणमाह-स्तैमिस्यमित्यादि। द्विदोषजगुल्महेतुलिङ्गातिदेशार्थमाह निमित्तत्यादिना। दोषबलाबलचे त्यनेनैको. स्वणं द्वन्द्वं प्राहयति। सीनिति च वातपित्तपित्तकफवातश्लेज्मजान । औषधकल्पनार्यमित्यनेन विकृतिविषमसमवायत्वात् स्वविलक्षणकार्यकर्तृतया प्रत्येकदोषे गुल्मा अभिनिविष्टा एव प्रत्येकोक्तचिकित्सामेलकेन चिकित्स्या इत्येतन्मातोपदर्शनार्थम् । एतेनाष्टौदर्योक्तपञ्चसंख्याविरोधोऽपि न भवति। द्वान्द्विकगुल्मभेदस्याप्रयोजनस्वात् सन्निपातगुल्मे तु प्रत्येकदोषजलक्षणादतिरिक्तानि लक्षणानि तत्प्रभावश्वासाध्यत्वादिर्वक्तव्य एवेति युक्तं तस्य भेदेनोपादानम्। ज्वरे भपि द्वन्द्वज्वराणां पृथक् लक्षणयोगेन द्वान्छिकत्वं युक्तमिति ज्ञेयम् ॥ १२ ॥ १३ ॥
३२२
For Private and Personal Use Only