________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५६४
चरक संहिता । गुल्मचिकित्सिकम् यः स्थानसंस्थानरुजाविकल्पं विड़ वातसङ्गं मल्लवसमगोषम् । श्याकारुणात्वं शिशिरज्वरश्च हत्कुक्षिपाश्चीसशिरोरुनश्च ।। करोति जीणेऽभ्यधिकं प्रकोपं भुक्ते मृदुत्वं समुपैति यश्च । कातात् स गुल्मो न च तत्र रुवं कषायतित कटु चोपोते॥॥ कटम्लतीक्ष्णोष्णविदाहिरुक्ष-क्रोधातिमद्यार्कहुताशसेवा । प्रामाभिघातो रुधिरश्च दुष्टं पैत्तस्य गुल्मस्य निमित्तमुक्तम् ॥६॥ ज्वरः पिपासा बदनाङ्गरागः शलं महजीयंति भोजने च। स्वेदो विदाहो व्रणवच्च गुल्मः स्पर्शासहः पैत्तिकगुल्मरूपम् ॥१०॥
गङ्गाधरः-वातजस्य गुल्मस्य रूपाण्याह-य इत्यादि। स्थानविकल्पः-- क्स्त्यादिपञ्चम स्थानेषु कदाचित् कुत्रचित् क्त्तते न नियमत एकस्मिन् स्थाने । संस्थान विकल्पः-गुड़िकाकारस्य स्वरूपस्य कदाचित् हस्थत्वं कदाचित् दीर्घत्वं कदाचित् वत्तुलत्वं कदाचित् पृथुखमेवमादिरूपः। रुजाविकल्पः-कदाचिद. वेदनायाः स्वल्पत्वं कदाचिन्महत्वं कदाचित् तीव्रत्वं कदाचिदनुपलभ्यमानबम् एवमादिः। स्थावारुणत्वं शरीरस्य । शिशिरज्ज्रं शीतज्वरम् । जीर्णे भुक्तान्ने जीण सति । भुक्त भुक्तमात्रे । अनोपशयानुपशयावाह-न चेत्यादि। रुक्षादिविपरोतानि चोपशेरते इत्यर्थी लभ्यते ॥८॥
मङ्गाधरः-कटुम्लेत्यादि। आमाभिघात आमगर्भपातः। रुधिरं द्वितीय धातुने खार्तवम् ॥९॥ ___गङ्गाधरः-पित्तजचिह्नमाह-ज्वरः पिपासेत्यादि। महच्छलं स्यात् । भोजने च जीय॑ति शूलं भवति । व्रणवत् व्रणशोथक्त् स्पर्शासहः ॥१०॥
गर्भाशय एव विशिष्टं स्थानं भवति। संप्रनि पृथवस्टेन हेतुलिङ्गचिकित्साविधानं प्रतीयते । पञ्चात्मकस्येत्यादि पञ्चरवरूपस्य कारणानि पञ्च वातपित्तकफसन्निपातरौधिररूपाणि । प्रभवत्यस्मादिति प्रभवः कारणम् । तिष्ठत्यस्मिन्निति स्थानमाकृतिः । रुजा पीड़ा। एषां विकल्पः क्षणेऽन्यथा त्वम् । शिशिरज्वरः शीतज्वरः । करोतीति पूर्वेण संबध्यते। जीर्णेऽभ्यधिक प्रकोपं समु । यश्च न चोपशेते इति न सुखं जनयति ॥ ६-८॥
चक्रपाणि:- कसम्लेत्यादिना पित्तगुल्ममाह। आमाभिघातशब्देनामाभिधातः पित्तजनको ज्ञेयः ।
For Private and Personal Use Only