________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५ अध्यायः ]
चिकित्सितस्थानम् ।
२५६३
वस्तौ च नाभ्यां हृदि पार्श्वयोर्वा स्थानानि गुल्मस्य भवन्ति पञ्च । पञ्चात्मकस्य प्रभवन्तु तस्य वक्ष्यामि लिङ्गानि चिकित्सितञ्च ॥६॥ रुक्षान्नपानं विषमातिमात्रं विचेष्टनं वेगविनिग्रहश्च । शोकोऽभिघातोऽतिमलचयश्च निरन्नता चानिलगुल्महेतुः ॥७॥
पित्तसंश्रये कफानुबन्धे वाते कफसंश्रये पित्तानुबन्धे वा वातेऽनुबन्धरूपेण वा पित्तकफौ समावप्रधानतया संश्रितौ । त्रयो द्वन्द्वजातवन्तोऽपि न गण्यन्तेऽनुबन्धेन गणनं ह्याचाय्येन क्रियते, भेषजार्थन्तु तानपि प्रतिसन्दध्यादिति । नन्वस्य गुल्मस्य किमसाधारणस्वरूपचिह्नमित्यत आहपत्यादि । स्पशन गुड़ीवत् गुड़काकार उपलभ्यते इति गुल्मो नाम यथादोषमुक्तरूपेण वातजादिनाम उपैति ॥ ५ ॥
गङ्गाधरः -- ननु कुत्र कुत्र स्थाने गुल्मो भवतीत्यत आह- वस्तावित्यादि । पाश्वयोरिति द्विवचनात् पार्श्वद्वयं स्थानद्वयं वोध्यम् । पञ्चति नियमार्थं न त्वधिकम् । नन्वेवञ्चेत् गुल्मः किंलिङ्ग इत्यत आह- पञ्चात्मकस्येत्यादि । पञ्चात्मकस्य वातपित्तकफसन्निपातार्त्तवात्मकस्य ॥ ६ ॥
गङ्गाधरः- वातजादेः प्रत्येकं निदानमाह रुक्षान्नेत्यादि । रुक्षान्नादयो हेतवः सामान्येन विश्लेष्मपित्तातिपरिस्रवैरित्यादिभिर्ये उक्तास्त एवात्र वातगुल्महेतुत्वेन पुनरुच्यन्ते, नान्ये विशिष्टाः केचित् सन्ति ॥ ७ ॥
निद्दिष्टं तेनो न याति तिर्य्यङ् न यातीति ज्ञेयम् । किंवा वायोः कोष्ठस्याधोगमनमेव प्रायो भवति तेन तन्निषेधः साक्षादुक्तः । इतर मार्गगमननिषेधस्तु समानन्यायतया लभ्यते । आश इति पक्काशये । पित्ताशयामाशययोर्भागे एव स्वतन्त्रः । I स्वतन्त्र इति वातगुल्मे, परसंश्रय इति पक्वाशये । पित्ताशयकफाशययोः कफजे पैत्तिके निचयगुल्मे च परसंश्रयो भवतीति ज्ञेयम् । परिपीडितत्वाद गुल्मइत्यनेन यथाज्ञा अपि लतासमूहादौ संघातेन गुल्म इति व्यपदिशन्ति, तथेहापि सङ्घातेनावस्थानाद् गुल्मविधानं व्यपदिशेयुः । यथादोषमिति ययोल्वणं दोषम् । नामेति च संज्ञा वातजोऽयं पित्तजोऽयमित्यादिका ॥ ४ ॥ ५ ॥
चक्रपाणिः -- गुल्गस्थानमाह--- वस्तावित्यादि । वस्त्यादिषु पञ्च स्थानान्येकरूपाणि भवन्ति । वस्त्यादीनीति पञ्चच, तथापि पञ्चग्रहणमधिकस्थान निषेधार्थम् । रौधिरस्यापि गुल्मस्य गर्भाशयस्य अपि पावस्थितत्वेन पार्श्वे एवाशये भवति । अन्ये च रौधिरव्यतिरिक्तानामेतत्पञ्चस्थानत्वं रौधिरस्य
For Private and Personal Use Only