SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५६२ चरक-संहिता। (गुल्मचिकिस्सितम रुखानपानरतिसेवितैर्वा शोकेन मिथ्याप्रतिकर्मणा वा। विचेष्टितैर्वा विषमातिमात्रः कोष्ठे प्रकोपं समुपैति वायुः ॥३॥ कफञ्च पित्तश्च स दुष्टवायुरुद्भूय मार्गान् विनिबध्य ताभ्याम् । हृन्नाभिपाश्ोदरवस्तिशूलं करोत्यधो याति न बद्धमार्गः॥४॥ पक्वाशये पित्तकफाशये वा स्थितः स्वतन्त्रः परसंश्रयो वा। स्पर्शोपलम्यः परिपीड़नत्वादु गुल्मो यथादोषमुपैति नाम ॥५॥ अतिसेवितः रुक्षान्नपानन खल्पसेवितः । शोकेन वातिशयेन न वल्पेन । मिथ्याप्रतिकर्मणा यस्य व्याधेर्यत् प्रतिकम्म तस्यायथावत्करणेन। विषमातिमात्रेविचेष्टितर्वा कदाचिन्न्यनं कदाचिदधिकं यद्विचेष्टितं तद् विषमं विचेष्टितम्। यच्च सव्वंदैवातिशयेन चेष्टते तदतिमात्रं चेष्टितम् । अन्यथा विषमत्वेनैवातिमात्रस्य लाभः स्यात् कुतः पुनरतिमात्रपदम् । कोष्ट इत्यामाशयादौ। एभिहेतुभिः स दुष्टवायुः कफश्च पित्तश्च उद्धय स्वस्थानादूद्ध नीखा ताभ्यामुद्धताभ्यां कफपित्ताभ्यां मार्गान् स्वस्य स्वभावतो गतेः पथो विनिबध्य बद्धान् कृता हृन्नाभ्यादिषु शूलं करोति बद्धमार्गखान्न चाधो याति ॥३॥४॥ गङ्गाधरः-नन्वेवं चेत् तदा वातज एव गुल्म एक एव भवति, च पित्तादिजः स्यादित्यत आह-पकाशये इत्यादि। स्थितः स्वतन्त्र इति यस्तथाविधः सन स्वतन्त्रः परानधीनः संस्तिष्ठति स वातगुल्म इति कथ्यते। यः परसंश्रयः पित्तसंश्रयः संस्तथाविधो वायुतिष्ठति पित्ताशये स पित्तगुल्मः। यः कफसंश्रयः संस्तथाविधो वायुः कफाशये तिष्ठति स कफगुल्मः। पित्तकफोभयसंश्रयो वा यस्तथाविधो वायुः सर्वाशये तिष्ठति स सनिपातगुल्म इत्यतो द्वन्द्वजगुल्मानामसम्भवः इति भावः । उक्तम् । अतिपीडनत्यनेन तदेवोच्यते। तैरेवेतीह इलेष्मपित्तैः । मिथ्याप्रतिकर्म मिथ्याकृतं वमनादिकं पञ्चकर्म॥३॥ चक्रपाणिः-कफञ्च पित्तञ्चेत्यादिना संप्राप्तिमाह-इयञ्च शोणितजगुल्मव्यतिरिक्तानां चतुणीं संप्राप्तिः। तत कफञ्च पित्तन्न्चेति कदाचित् पित्तं कदाचित् कर्फ कदाचिद्रक्तमपि। तख कफजे स्वतन्त्रो वृद्धः कफः। पित्तजे स्वहेतुवृद्धं स्वतन्त्रं पित्तम् । सन्निपाते च यथोक्तगुणौ पित्तकफा. बुद्धय गुल्मं बायुः करोति। वातगुल्मे स्वतन्तः प्रकुपितो वायुः प्रकृतिस्थौ पित्तकफावुद्भूय गुरुमं करोतीति ज्ञेयम्। मार्गानित्यधिस्तिर्यङमार्गान् । अधो न यातीत्यस कारणं लुप्त For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy