________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पञ्चमोऽध्यायः ।
अथातो गुल्मचिकित्सितं व्याख्यास्यामः, इतिह स्माह भगवानात्रेयः ॥ १ ॥ सप्रजानां पितृवच्छरण्यः पुनर्व्वसुर्भूतभविष्यदीशः । चिकित्सितं गुल्म निवर्हणार्थं प्रोवाच सिद्धं वदतां वरिष्ठः ॥ २ ॥ विट्श्लेष्मपित्तातिपरिस्रवाद वा तैरेव वृद्धेरपि पीड़नाद वा । वेरुदीर्णे विहतैरधो वा वाह्याभिघातैरतिपीड़नाद वा ॥
Acharya Shri Kailassagarsuri Gyanmandir
गङ्गाधरः- उद्देशानुक्रमात् रक्तपित्तचिकित्सितानन्तरं गुल्मचिकित्सितमाह - अथात इत्यादि । सव्वं पूर्व्ववद् व्याख्येयम् ॥ १ ॥
।
गङ्गाधरः - सव्वत्यादि । भूतभविष्यदीश इति भूतभविष्यज्ज्ञातुमीशः । बदतामाप्तानां वरिष्ठः ॥ २ ॥ गङ्गाधरः - विड़ित्यादि । विट्श्लेष्म पित्तानामतिशयेन परिस्रवात् वमनविरेचनाभ्यामतिनिर्हरणात् । तैविट्श्लेष्मपित्तवृद्धैरेवातिपीडनात् कोष्ठे वायोर्यथावचलनरोधात् । वाशब्देरेकशः कारणत्वं शापितम् । वेगेरुदीर्णरुपस्थितैः पुरीषादीनां वेगैरधोविहतैरवः प्रवर्त्तने निरोधितैर्वा हेतुभिः । वासाभिघातैः दण्डाद्यभिहननैरतिपीड़नाद्वा न खतिपीड़नाजनकैर्दण्डाद्यभिघातः ।
·
चक्रपाणिः - निदानोक्तक्रमानुरोधाद्रक्तपित्तमनु गुल्मचिकित्सितं ते । सर्व्वप्रजानमित्याहिया गुरोः स्तुतिः । धजनकतया तथोत्तरप्रन्यादेयतथा भूत्ते भविष्ये चान्याहवशानतया प्रभुरेव भवतीति भूतभविष्यदीश इति सिद्धम् । साध्याव्यभिचारि सर्व्वमेव चिकित्सितं यद्यपि सिद्धमेव ree तथाप्यत्र प्रकरणे स्तुत्यर्थ सिद्धपदं शेयम् ॥ १॥२॥
चक्रपाणिः - अस यद्यपि निदाने एव गुल्मस्य हेतुलक्षणान्युक्तानि तथापि प्रकरणवशात् पुतताम्यभिधीयन्ते । निदानोक्ताद विशेषश्च कश्विदुच्यते । निदाने वायोरेव कोपेन वृद्धे हतुभिरा करपा
For Private and Personal Use Only