________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रक्तपित्तचिकित्सितम
२५६०
चरक-संहिता।
तत्र श्लोका। हेतुं वृद्धिं संख्यास्थाने लिङ्ग पृथक् प्रदुष्टस्य । मागौं साध्यमसाध्यं याप्यं कार्य क्रमञ्चैव ॥ पानान्नमिष्टमेव च वज्यं संशोधनञ्च शमनश्च । गुरुरुक्तवान् यथावचिकित्सितं रक्तपित्तस्य ॥ ५७॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने रक्तपित्तचिकित्सितं नाम चतुर्थोऽध्यायः॥ ४ ॥
गङ्गाधरः-अध्यायाथमुपसंहरति-तत्र श्लोकावित्यादि। प्रदुष्टस्य रक्तपित्तस्येत्यन्वयः। गुरुरात्रेयो भगवान् पुनव्वसुः। यथावद यथायोग्यमित्यर्थः॥ ५७॥
गङ्गाधरः-अध्यायं समापयति-अग्निवेशेत्यादि। इति वद्यश्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ चिकित्सितस्थाने षष्ठस्कन्धे रक्तपित्तचिकित्सितजल्पाख्या
चतुर्थी शाखा ॥४॥
चक्रपाणि:-हेतुमित्यादिनाध्यायार्थसंग्रहः। एतच्चाध्यायोक्तं व्यक्तमेव ॥ ५७ ॥
इति चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेद-दीपिकायां घरकतात्पर्य
टीकायां रक्तपित्तचिकित्सितं नाम चतुर्थोऽध्यायः ॥ ४॥
For Private and Personal Use Only