________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्र्थ अध्यायः] चिकित्सितस्थानम् । २५५६ धारागृहं भूमिगृहं सुशीतं वनश्च रम्यं जलवातशीतम्। वैदूर्यमुक्तामणिभाजनानां स्पर्शाश्च दाहे शिशिराम्बुशीताः॥ पत्राणि पुष्पाणि च वारिजानां क्षौमञ्च शीतं कदलीदलञ्च । आच्छादनार्थं शयनासनानां पद्मोत्पलानाञ्च दलाः प्रशस्ताः॥ प्रियङ्ग काचन्दनरूषितानां स्पर्शाः प्रियाणाञ्च वराङ्गनानाम् । दाहे प्रशस्ताः सजलाः सुशीताः पद्मोत्पलानाञ्च कलापवाताः॥ सरिदहदानां हिमवदरीणां चन्द्रोदयानां कमलाकराणाम् । मनोऽनुकूलाः शिशिराश्च सर्वाःकथाः सरक्तं शमयन्ति पित्तम्॥५६
गङ्गाधरः-धारागृहमित्यादि। धारागृहं जलोद्वमनयन्त्रेण जलधारापातो यस्मिन् गृहे तत्। भूमिगृहं मृदगृहं, वनश्च जलवाताभ्यां शीतं रम्यश्च । वैदूर्य्यादीनां शिशिरवस्तू नां शीतीकृतभाजनस्पर्शा इति भावः। वारिजानां पद्मादीनां पत्राणि पुष्पाणि च क्षोमवस्त्रश्च शीतं शय्यासनाच्छादनार्थ प्रशस्तं, तथा पद्मोत्पलानां दलाश्च शय्याद्याच्छादनार्थ प्रशस्ताः।। - प्रियङ्गुकेत्यादि। प्रियङ्गश्वेतचन्दनघर्षणपङ्कलिप्ताङ्गीनां प्रियाणां न खप्रियाणां वराङ्गनानां घनवत्तलस्थूलस्तनीमृदुमसणशीतस्निग्धनातिकृशनातिस्थलाङ्गीनां नवयौवनेन गर्वितमदनोन्मत्तानां स्त्रीणां स्पर्शा दाहे प्रशस्ताः । तथा पद्मोत्पलानां सजलाः सुशीताश्च स्पर्शाः प्रशस्ताः । कलापवाताः मयरपिच्छव्यजनकृतवाताश्च दाहे प्रशस्तास्तथा सरितां नदीनां हूदानां हिमवदरीणां महानदीनां चन्द्रोदयानां ज्योत्स्नासम्बन्धिनां कमलाकराणां सरसाश्च वाताः दाहे प्रशस्ताः। सर्बो मनोऽनुकूलाः शिशिराश्च कथाः सरक्तं पित्तं शमयन्ति ॥५६॥
प्रलेपार्थमाह। अमृणालमुशीरभेद एव सुगन्धिः कन्दलः कालानुसारि शीतलम्। पद्मोत्पलानाञ्च कलापवाता इति पद्मोत्पलसमूहजलकृतवाता इत्यर्थः। शिशिराश्व सव्वा इत्यनेन लेपविधानम् ॥ ५३-५६ ॥
For Private and Personal Use Only