________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५५८
चरक-संहिता। रक्तपित्तचिकित्सितम् पियालतैलं मधुकं पयश्च सिद्धं घृतं माहिषमाजकञ्च । आम्रास्थिपूवैः पयसा च नस्यं ससारिवैः स्यात् कमलोत्पलैश्च ॥५४ भद्रश्रियं लोहितचन्दनश्च प्रपौण्डरीकं कमलोत्पले च। उशीरवानीरजलं मृणालं सहस्रवी- मधुकं पयस्या॥ शालीचमूलानि यवासगुन्द्रा मूलं नलानां कुशकाशयोश्च । कुचन्दनं शैवलमप्यनन्ता कालानुसाऱ्या तृणमूलमृद्धिः ॥ मूलानि पुष्पाणि च वारिजानां प्रलेपनं पुष्करिणीमृदश्च । उडुम्बराश्वत्थमधूकलोध्राः कषायवृक्षाः शिशिराश्च सर्वे ॥ प्रदेहकल्पे परिषेचने च तथावगाहे घृततैलसिद्धौ । रक्तस्य पित्तस्य च शान्तिमिच्छन् भद्रश्रियादीनि भिषकप्रदद्यात्॥५५
पियालेत्यादि । पियालफलास्थि पीड़यिखा तलं यत् तस्य नस्यम्, मधुकश्च जले पक्त्वा तत्काथजलं नस्यम्, पयो गव्यं माहिषमाजकञ्च घृतञ्च, आम्रास्थिपूर्चराम्रास्थ्यादिभिर्मधुकान्तद्रव्यैः कल्कैः पयसा च चतुगणेन सिद्धं पक नस्यम् । तथा कमलोत्पलैः ससारिवः कल्कैः पयसा सिद्धं माहिषमाजकञ्च घृतं नस्यं स्यात् ॥ ५४॥
गङ्गाधरः-भद्रश्रियमित्यादि। भद्रश्रियं श्वेतचन्दनम् । वानीरं वेतसम् । सहस्रवीर्या दूर्वाभेदः । पयस्या क्षीरकाकोली । गुन्द्रा गुन्द्रारोचनी, कम्पिल्लकमित्यर्थः। नलकुशकाशानां मूलम् । कुचन्दनं वकम इति लोके। शैवलं शैवालम् । कालानुसारी श्यामलता। तृणमूलं गन्धतृणमूलम्। ऋद्धिः स्वनामख्याता। वारिजानां पद्मादीनां मूलानि पुष्पाणि च पुष्करिणीमृदश्च प्रलेपनम् । प्राधान्येनोडुम्बरादय उक्ता अपरे च कषायक्षा वटादयः शिशिराः शीतवीर्याः शीतस्पर्शाः सव्र्वे प्रदेहादिषु कल्पेषु भद्र श्रियादीनि प्रदद्यात्। तत्र घृततलसिद्धी काथकल्कतया प्रदद्यात्, अवगाहे परिषके च काथतया, प्रदेहे कल्कतया ॥५५॥ रक्त इत्यादि । सिताजलेनेति शर्कराजलेन नीलोत्पलादीनि अवपीड़ितः स्यात् । पियालतैलमित्यादौ पियालतैलं मधुककल्केन पयसा द्वेण साध्यम्। धृतं माहिषमित्यादावाम्रास्थिपू_राम्रास्थिरसः । स मार्गत्यादियोगोक्तः शारिवाकमलोत्पलानि च कल्कः पयो द्रवः ज्ञेयम् । भद्रश्रियादीनि
For Private and Personal Use Only