SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ अध्यायः ] चिकित्सितस्थानम् । २५५७ कषाययोगा ग्रोपदिष्टास्त्रे चात्रत्रोड़े भिषजा प्रयोज्याः । प्राणात् प्रवृतं रुधिरं सपित्तं यदा भवेन्निःसृतदुष्टदोषम् ॥ रक्त प्रदुष्टह्य पीड़बन्धे दुष्टप्रतिश्याय शिरोविकाराः । रक्तं सपूयं कुणपैः सगन्धं स्याद् प्राणनाशः क्रिमयश्च दुष्टाः ॥५३॥ नीलोत्पलं गैरिकशङ्खयुक्तं सचन्दनं स्यात् तु सिताजलेन I नस्यं तथाघ्रास्थिरसः समङ्गा सधातकी मोचरसः सलोधः ॥ द्राक्षारसस्ये चुरसस्य नस्यं क्षीरस्य दुव्र्वास्वरसस्य चैव । यवासमूलानि पलागडुमूलं नस्यं तथा दाड़िमपुष्पतोयम् ॥ गङ्गाधरः-- कषायेत्यादि । घ्राणात् प्रवृत्तं सपित्तं रुधिरं यदा निःसृतदुष्टदोषं निःशेषेण वहिःसृता दुष्टदोषाः पित्तकफवाता यस्य तद्रूपं स्यात् तदा य इह रक्तपित्ते अटरूकमुद्रीकेत्यादिना प्रोक्ताः कषायास्ते चायपीड़े नस्यविधया भिषजा प्रयोज्याः । ननु कथं यदा भवेन्निःसृतदुष्टदोषं तदा प्रयोज्या इत आह-रक्त इत्यादि । हि यस्मात् । प्रदुष्टे रक्ते सति अवपीड़बन्धे कृते दुष्टप्रतिश्यायादयः स्युस्तस्मात् निःसृतदुष्टदोषं यदा तदा ते प्रयोज्या इति भावः ।। ५३ ।। गङ्गाधरः- अपरान् योगानाह - नीलोत्पलमित्यादि । नीलोत्पलादिकं कल्कीकृत्य सितामिश्रितजलेन नस्यम् । स्वरसेन नस्यम् । तथा सवात की समङ्गानस्यम् । तथा सलोधो तथा द्राक्षारसनस्यम् । तथा इक्षुरसस्य नस्यम् । तथा क्षीरस्य नस्यम् । तथा दुर्व्वास्सस्य च नस्यम् । तथा यवासेत्यादि दुरालभामूलानि, पलाण्डोच मूलं नस्यम् । तथा दाड़िमपुष्पं काथयित्वा तत्काथजलं नस्यम् । For Private and Personal Use Only चन्दनान्तं सर्वं तथाम्रा स्थिमज्जमोचरसो नस्यम् । चक्रपाणिः प्राणप्रवृत्तरक्तपित्तचिकित्सितमाह - कषाययोगा इत्यादि । उशीरकालीयकेत्यादिना ये कषाययोगा उक्तास्ते घ्राणप्रवृत्ते रक्तपित्ते न देयाः । अवपोडश्च द्रव्यमापोथितं कृत्वा पीडयित्वा रसो दीयते यः स उच्यते । अयञ्च निःसृते रक्तदोषे सति देयः । विपर्यये दोषमाह ३२१
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy