________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ रक्तपित्तचिकित्सितम्
२५५६ चरक संहिता | कफानुबन्धे रुधिरे सपित्ते कण्ठागमे स्याद् ग्रथितै प्रयोगः । युक्तस्य युक्त्या मधुसर्पिषोश्च चारस्य चैवोत्पलनालजस्य ॥ मृणालपद्मोत्पलकेशराणां तथा पलाशस्य तथा प्रियङ्गोः । तथा मधूकस्य तथा शरणस्य नाराः प्रयोज्या विधिनैव तेन ॥ ५१ ॥ शतावरीदाड़िमतिन्तिड़ीकं काकोलिमेदे मधुकं विदारीम पिष्टा च मूलं फलपूरकस्य घृतं पचेत् क्षीरचतुर्गुणेन ॥ कासज्वर रानाहविवन्धशूलं तद् रक्तपित्तञ्च घृतं निहन्यात् । यत् पञ्चमूलैरथ पञ्चभिर्वा सिद्धं घृतं तच्च तदर्थकारि ॥ ५२ ॥ इति शतमूलादि घृतम् । समीक्ष्य कार्यम् । ये च सर्पिर्गुड़ाः क्षतानां हिता उरःक्षताधिकारे वक्ष्यन्ते, ते च रक्तपित्तं सद्यः शमयन्ति ॥ ५० ॥
गङ्गाधरः- कफानुबन्धे इत्यादि । कण्ठागमे कण्ठदेशे ग्रथितरूपेण सरक्तपित्ते कफयुक्ते स्थिते सति युक्तस्य उत्पलनालजस्य क्षारस्य मधुमर्पिषोः युक्त्या युक्तः प्रयोगः कार्य्यः । पद्मादीनां नालं दग्ध्वा क्षारं कृत्वा तत्क्षारस्य प्रयोगः । तथा मृणालपद्मनीलोत्पलनागकेशराणि दग्ध्वा क्षारं कृत्वा तस्य प्रयोगः । तथा पलाशपुष्पस्य क्षारप्रयोगः । तथा प्रियङ्गाः पुष्पक्षारस्य प्रयोगः । तथा मधूकस्य पुष्पक्षारप्रयोगः । तथा शणस्य पुष्पक्षारप्रयोगः । एते च क्षारास्तेनैव विधिना मधुसर्पिषोयुक्त्या अतुल्याभ्यां मधुसर्पिर्भ्यां युक्ताः प्रयोज्याः ॥ ५१ ॥
गङ्गाधरः- शतावरीत्यादि । शतावर्थ्यादीनि फलपूरकस्य मातुलुङ्गस्य मूलञ्च पिष्ट्वा कल्कीकृत्य । यदित्यादि । पञ्चमूलैः पञ्चभिः स्वल्पवृहत्तणकण्टकिल्लीपञ्चमूलैः कल्कीभूतैर्जले च काथयित्वा तस्मिंश्चतुर्गुणे । वाशब्दः पूर्व्वघृतापेक्षया ॥ ५२ ॥
चक्रपाणि: - रुधिरे सपित्ते इति रक्तपित्ते । मधुसर्पिषोयुं तस्येति मात्रया युक्तस्य क्षारस्य प्रयोगः, युक्तिशब्दो मातावचने कल्कार्थप्रतिपादकः । यद्यपि क्षारस्तीक्ष्ण उक्तस्तथापि कण्ठस्थकफविलयार्थम् उत्पलनालादिकृतगुणानुविधानात् क्षारो दीयत एव । एवं रक्तपित्तहरस्य प्रभावादुत्पलनालादिक्षारो भवत्येव, येन तीक्ष्णानि द्रव्याणि परित्यज्योत्पलनालान्येव क्षारार्थमाह । उक्तञ्च वार्तिके क्षीरस्वामिदर्शन- 'शीतं जहति भूयिष्ठं दग्धं सपदि सोमता' मिति चेद् दृष्टो हि भस्मन्यपि गुणोदय इति ॥ ५१ ॥ चक्रपाणि: - फलपूरको बीजपूरकः । पञ्च पञ्चमूलानि रसायनोक्तानि । तदर्थकारीत्यनेनानन्तरोक्तशतावर्य्यादिघृतानुकारि ॥ ५२ ॥
For Private and Personal Use Only