SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir थं अध्यायः चिकित्सितस्थानम् । २५५५ पलाशवृन्तस्वरसेन सिद्धं तस्यैव कल्केन मधूद्र मेण छ। लिह्याद् घृतं वत्सककल्कसिद्धं तद्वत् समङ्गोत्पललोध्रसिद्धम् ॥४८॥ स्यात् त्रायमाणाविधिरेष एव सोदुम्बरे चैव पटोलपत्रे। सीषि पित्तज्वरनाशनानि सर्वाणि शस्तानि च रक्तपित्ते ॥४६॥ अभ्यङ्गयोगाः परिषेचनानि सेकावगाहाः शयनानि वेश्म । शीतो विधिर्वस्तिविधानमग्रा पित्तज्वरे यत् प्रशमाय दृष्टम् ॥ तद् रक्तपित्ते निखिलेन कार्य कालञ्च मात्राञ्च पुरा समीक्ष्य। सर्पिगड़ा ये च हिताः क्षतानां ते रक्तपित्तं शमयन्ति सद्यः॥५० गङ्गाधरः-पलाशेत्यादि। पलाशपत्रन्तं प्रसवबन्धनं तस्य स्वरसेन .. चतुर्गणेन तस्यैव पलाशपत्रन्तस्य कल्केन पादिकेन सिद्धं घृतं लिह्यात् । मधूमेण मधूकपत्रन्तस्वरसेन चतुर्गुणेन तस्य कल्केन वत्सककल्केन पादिकेन सिद्धश्च घृतं लिह्यात् । तद्वत् समङ्गादिभिस्त्रिभिः कल्कीभूतैस्तेषां चतुगु णकाथेन सिद्धं घृतं लिह्यादित्यन्वयः ॥४८॥ गङ्गाधरः-स्यादित्यादि। एप एव त्रायमाणाविधिः काथकल्काभ्यां वायमाणायाः सिद्ध घृतम् । तथोड़म्बरे चैष एव विधिः कोठोड़म्बरकाथकल्काभ्यां सिद्ध घृतम्। तथा पटोलपत्रे चैष एव विधिः पटोलपत्रकाथकल्काभ्यां सिद्धं घृतम् । एतानि त्रीणि सी षि तथा पित्तज्वरोक्तानि सर्वाणि ॥४९॥ गङ्गाधरः-अथाभ्यङ्गादयः शीतविधिवस्त्यन्ताः पित्तज्वरे प्रदर्शितास्तत् सवं रक्तपित्ते प्रशमाय दृष्टं निखिलेन कारन्येन कार्य पुरा मात्राश्च कालश्च चक्रपाणिः-मधुद्रवेणेति पादिकेन मधुना द्रवीकृतम्। वायमाणायाः एवं सर्पिः पूर्ववदिति । उदुम्बरपटोलपताभ्याञ्चापरम् । पित्तज्वरनाशनानीत्यनेन सकलचिकित्सितवाक्यानि ज्वरहराणि ज्ञेयानि। घृतानि पित्तज्वरहन्तृतयेहोक्तानि, न जीर्णज्वरहन्तृतया। अन्ये तु यान्येव जीर्णज्वरहराणि घृतानि तान्येव पित्तज्वरहराणि भवन्ति। तेषान्तु रुक्षं तेज इति ज्वरविषमतया समानत्वेन निर्दिष्टपित्तविषयत्वम् । प्रदेशान्तरेऽपि जले दशगुणे साध्यं वायमाणाचतुःपलमित्यादि यावत् पित्तगुल्मं विसी श्च पैत्तिकज्वरमिति । तथा वायन्तिकामित्यादि यावद् वातरक्त क्षतक्षीणे विसप पैत्तिके ज्वरे इत्यादीनि सकलचिकित्सिते पित्तज्वरघृतानि कर्त्तव्यानि । अभ्यङ्गयोगादयः सर्वे ये दाहज्वरहरा उक्ताः पित्तज्वरप्रशमकत्वेन तानादिशन्ति ॥ ४८-५०॥ • मधूद मेणेत्यत्र मधुद्रवेण इति चक्रसम्मतः पाठः । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy