________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५५४
चरक-संहिता। (रक्तपित्तचिकित्सितम् कषाययोगान् पयसा पुरा वा पीत्वा तु चाद्यात् पयसैव शालीन् । कषाययोगैरथवा विपक्कमेतैः पिबेत् सपिरतिस्रवे च ॥ ४६॥ वासां सशाखां सफलां समूलां कृत्वा कषायं कुसुमानि चास्याः। प्रदाय कल्कं विपचेद् घृतं तत् सनौद्रमाश्वेव निहन्ति रक्तम्॥४७
वासाघृतम्।
.. गङ्गाधरः-कषायेत्यादि। कषाययोगान् अटरूषकमृद्रीकेत्यादाक्तान पयसा साधितान् पुरा वा पीला तेनैव पयसा शालीनद्यात् । पूर्वापेक्षया वाशब्दः। एतैरेवाटरूषकमृद्रीकेत्यादिभिरुक्तः कषाययोगैः काथकल्करूपैः विपक सर्पिरतिरक्तस्रवे पिबेत् ॥ ४६॥
गङ्गाधरः-घृतान्तरमाह-वासामित्यादि। शाखाफलमूलसहितां वासां काथयिखा चतुगुणं काथं दत्त्वा वासायाः कुसुमानि कल्कं प्रदाय घृतं विपचेत् । पूला शीते पादिकं मधु प्रक्षिप्य मेलयित्वा पिबेत् । अत्र पुष्पकल्कं न पादिकं दद्यादाढ्यखात्। तदुक्तं हि "शणस्य कोविदारस्य वृषस्य ककुभस्य च। कल्काव्यखात् पुष्पकल्क प्रस्थे पलचतुष्टयम्” इति । कश्चिदत्र मूलकठिनाकठिनद्रव्यसंघातेऽष्टगुणं जलं दत्त्वाष्टमांशशेषं काथं चतुगुणं दत्त्वा। इति वासाघृतं नामेदम् ॥४७॥
सितया च युक्तया पेयमिति ज्ञेयम्। पर्णिन्यः पर्णिनीचतुष्टयम्। वटशुगोऽविकसितनववटपल्लवान् । कषाययोगानिति अटरूषकादीन् कल्कीकृतान् पयसा पीत्वेत्यर्थः। एतैरिति वक्ष्यमाणैः किंवा एतैरेव कषाययोगैर्यथायोग्यतया सर्पिः साधनीयम् । अति स्रव इत्यतिमात्ररक्तपित्तस्नु तौ॥ ४० - ४६॥ - चक्रपाणिः- आर्द्राया एव वासाया विधानानुकथनाद् द्वैगुण्यम्। वासाकुसुमकल्के च केचित् पुष्पकल्कस्यातीवालाभो भवतीति कृत्वा प्रस्थे वृत्ते चतुष्पलं पुष्पकल्कं वदन्ति । सक्षौद्रमिति वचनेन वृत्तात् पादिकत्वं तन्त्रातरप्रत्ययाजज्ञेयम्, उक्तं हि-"स्नेहपादः स्मृतः कल्कः कल्कवन्मधुशर्करा" इति। अग्निवेशेऽप्युक्तम् -'मात्रा क्षौद्रघृतानाञ्च स्नेहक्वाथेषु पूधवत्" इति पादिकम् ॥४७॥
For Private and Personal Use Only