________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४ अध्यायः ]
चिकित्सितस्थानम् ।
३५५३
कषाययोगैर्विविधैर्यथोक्तैर्दीप्ते ऽनले श्लेष्मणि निर्ज्जिते च । यद् रक्तपित्तं प्रशमं न याति तत्रानिलः स्यादनु तत्र कार्य्यम् ॥ छागं पयः स्यात् परमं प्रयोगे गव्यं श्रुतं पञ्चगुणे जले वा । सशर्करं माक्षिकसंप्रयुक्तं विदारिगन्धादिगणैः शृतं वा ॥ द्राक्षाभृतं नागरकैः शृतं वा बलाश्रुतं गोक्षुरकैः श्रुतञ्च । सजीवकं सर्वभकं ससर्पिः पयः प्रयोज्यं सितया भृतं वा ॥ ४३ ॥ शतावरी गोक्षुरकैः शृतं वा श्रुतं पयो वाप्यथ पर्णिनीभिः । रक्तं निहन्त्याशु विशेषतस्तु यन्मूत्रमार्गात् सरुजं प्रयाति ॥ ४४ ॥ विशेषतो विपथसंप्रवृत्ते पयो हितं मोचरसेन सिद्धम् । वटावरोह शुङ्गकैर्वा हीवेर नीलोत्पलनागरैर्वा ॥ ४५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
I
गङ्गाधरः – एवं कषाययोगैर्यथोक्तः श्लेष्मणि निज्जेितेऽनले च दीप्ते सति यद् रक्तपित्तं न प्रशमं याति तत्रानिल उल्वणः स्यात्, तत्र वातोल्वणे सति अनु पश्चात् काय्यं यत् तदाह - छागमित्यादि । छागं पयः केवलं शृतं परमं स्यात् । शकरामधुयुक्तं सर्व्वत्र बोध्यम् । प्रयोगे पञ्चगुणे जले मृतं क्षीरावशेषेण पक गव्यश्च पयः शीतीभूतं शर्करायुक्तं परमं स्यात् । अथवा विदारिगन्धादिगणैः शालपर्ण्यादिभिः पञ्चभिश्चतुगणजले मृतं गव्यं पयः छागं वा शर्करामाक्षिकयुक्तं परमं स्यात् । द्राक्षेत्यादि । द्राक्षादिना प्रत्येकेन शृतं गव्यं पयः । तथा जीवकर्षभकर्णसर्पिः सिताभियुक्तं गव्यं पयः प्रयोज्यम् । केवलं शृतमावर्त्तितं दुग्धं जीवकादिभिश्चतुर्भियुक्तं प्रयोज्यम् ॥ ४३ ॥
गङ्गाधरः - शतावरीत्यादि । शतावरीगोक्षुराभ्यां शृतं गव्यं पयः पणिनीभिश्चतसृभिः शृतं पयो वा रक्तं रक्तपित्तम् ऊर्द्ध गमधोगश्चाशु निहन्ति, तंत्र विशेषतो मूत्रमार्गप्रवृत्तं सरुजं रक्तमाशु निहन्ति ॥ ४४ ॥
गङ्गाधरः - विशेषत इत्यादि । विपथप्रवृत्ते गुदतः प्रवृत्ते रक्ते मोचरससिद्धमेकं वटावरोहसिद्धं द्वितीयं वटशुङ्गसिद्धं तृतीयं ह्रीवेरादिसिद्धं चतुर्थं पयः ॥ ४५ ॥
प्रायश आन्तरं न तु प्रक्षेप्यः । एवं यष्टिकाप्रयोगोऽपि । तलानिलः स्यादिति तल बढ़वान् वातः स्वात् । प्रयोग इति अभ्यासे । सजीवकमित्यादौ सजीवकं सर्वभकं शृतं यत् सर्पिः प्रयोज्यं तथा
For Private and Personal Use Only