________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पम अध्यायः
चिकित्सितस्थानम् ।
२२६३ अभेषजश्च द्विविधं बाधनं सानुबाधनम् ॥३॥ स्वस्थस्योजस्करं यत् तु तद् वृष्यं तदरसायनम् । प्रायः प्रायेण रोगाणां द्वितीयं प्रशमे मतम् ।
प्रायःशब्दो विशेषार्थो हुरभयं हाभयार्थक्त् ॥ ४ ॥ ५ ॥ अभिधीयते तत्। भेषजलक्षणमुक्त्वा विभजते-भेषजं द्विविधश्च तदिति। किं द्विविमित्यत आह -स्वस्थस्येत्यादि। ओजस्करं प्राधान्यादोज इत्युपलक्षणं, तेन ओजआदिकर पूर्वाध्यायेऽप्युक्तं “किश्चिद् दोपप्रशमनं किश्चिद्धातुप्रदूषणम् । स्वस्थवृत्तौ मतं किश्चित् त्रिविधं द्रव्यमुच्यते” इति। तत्र स्वस्थवृत्ती यदुक्तं तदिदं स्वस्थस्योजस्करमाह, तत्र दोषप्रशमनं यदुक्तं तदवार्तस्य रोगनुत् उच्यते ॥२॥
गङ्गाधरः-तत्र यच्च धातुप्रदूषणमुक्तं तदेवात्र विकृणोति -अभेषजञ्चेत्यादि। अमेषजं धातुप्रदूषणं बाधनं सद्यःप्राणहरतया वाधकारकं यथा वविज्ञातभेषजं विषाग्निवज़शस्त्रादिकम् । सानुबाधनं कालानुबन्धेन बाधकरं दृषीविषादि ॥३॥
गङ्गाधरः-भिन्नाधिकारखात् तन्न विकृत्य स्वाधिकारखात् स्वस्थस्यौजस्कर विणोति स्वस्थेत्यादि। स्वस्थस्यौजस्करमपि द्विविधं वृष्यं रसायनञ्चेति । प्रतिलोमतन्त्रयुक्त्या रसायनस्य वृष्यतो भेदमाह--प्राय इत्यादि। द्वितीयं रसायनं पायो रोगाणां प्रायेण प्रशमे मतम्, प्रथमन्तु न तथा। परन्तु यत् तद्वक्ष्यतेऽत्रैव वानीवेत्यादिना। ननु द्वौ प्रायःशब्दो किमर्थावित्यत आहप्राय इत्यादि । प्रायःशब्दो विशेषार्थ एकः परस्तु बाहुल्याथोपचरित एवेतीत्यूक्तः। तथा च रसायनं प्राचुय्येण रोगाणां विशेषेण प्रशमकं स्वस्थस्यौजस्करञ्च, प्रशस्तशारीरभावहरत्वेन 'ऊर्ज' प्रशस्तं भावमादधातीति स्वस्थस्योजस्करम् ; 'आर्त्तस्य रोगनु' इति विशेषणेन ज्वरादिनार्तस्य ज्वरादिहरम् ; 'रोगनुद्' इति वचनेनैव आर्त्तविशेषगतायां लब्धायां यद् “आर्त्तस्य' इति करोति, तेन सहजजरादिकृतां पीड़ामनुदेजिको परित्यय ज्वरादिना अम्बाभाविकेन रोगेण पीड़ितस्येति दर्शयति ॥ २ ॥
चक्रपाणिः-भेषजप्रसङ्गात् अभेषजद्वैविध्यमाह-अभेषजमित्यादि। बाधनमिह तदात्वमात्रबाधकम्, यथा-स्वल्पमपथ्यम् ; सानुबाधनञ्च दीर्घ कालावस्थायिकुष्ठादिविकारकारि ॥३॥
चक्रपाणिः-द्विविधं भेषजमुक्तं विभजते, - स्वस्थेत्यादि। 'तवृष्यं तदसायनं प्रायः' इति च्छेदः । तवृष्यं प्रायो भवति तथा रसायनं तत् प्रायो भवति ; आर्त्तस्य रोगहरं यद बाहुल्येन, स्वस्थोऽर्जस्करमुच्यते, यत् तु द्वितीयमातरोगहरम्, तत् प्रायेण ज्वरादिशमनं रसायनं वाजीकरणञ्च
For Private and Personal Use Only