________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ रसायनपाद
२२६२
चरक-संहिता। चिकित्सितं व्याधिहरं पथ्यं साधनमौषधम् । प्रायश्चित्यं प्रशमनं प्रकृतिस्थापनं हितम् ॥ विद्याद भेषजनामानि भेषजं द्विविधञ्च तत् । स्वस्थस्यौजस्करं + किञ्चित् किञ्चिदार्तस्य रोगनुत् ॥ २॥
क्रमेण वक्तुप्राथमिकखादभयामलकीयरसायनपादमाह-अथेत्यादि। रसायना ख्यस्याध्यायस्य पादं चतुर्थाशं व्याख्यास्याम इत्यादिकं पूर्ववद्याख्येयम् ॥१॥
गङ्गाधरः--तत्र प्रथमतश्चिकित्सां लक्षयति-चिकित्सितमित्यादि। कित निवासे रोगापनयने संशये चेत्यस्य कितधातो रोगापनयनाथै स्वार्थे सनन्तत्वे करणे क्तान्तप्रयोगः। रोगापनयनसाधनमित्यर्थः। रोगनिवृत्ति जनकव्यापारकरणमित्यर्थः। अत एव व्याधिहरं व्याधीन हरति यत् तत् । पथ्यं पथिषु स्रोतःसु हितं। साधनं प्रकरणात् रोगाः साध्यन्ते निवर्तान्तेऽनेनेति साधनग औषधम् ओषधिभिनिष्पन्नं व्याधिहितं, तदुपलक्षणत्वात् सन्च चिकित्सितमौषधं रूढम्। प्रायश्चित्यं दुःखेषु प्रायो योऽग्निरिव तत् प्रायश्चित्यं चित्यो ह्यग्निरुच्यते। प्रशमनं प्रकर्षण शमयति येन तत् । प्रकृतिस्थापन प्रकृतौ लोकानां धातून स्थापयति येन तत्। हितं पोषकत्वात्। भेषजं भिषजां रोगापनयनाथमिदं यत् तत्। भेषजं पायश्चिकित्सितादिभिरेभिः शब्दर्यत
आदावभिधानम्, तयोरपि रसायनमेव वर्षसहस्रायुष्ट्वादिकारणतया महाफलनिति तदभिधीयते, तखापि चाभयामलकीयश्चिकित्सास्थानार्थसूताभिधायकतयाग्रेऽभिधीयते ॥ १॥
चक्रपाणिः--तवादी व्यवहारार्थ स्थानाभिधेयस्य भेषजस्य पर्यायानाह -चिकित्सितमित्यादि। करोति चैवमादौ प्रधानाभिधेयपर्यायाभिधानम्, यथा निदाने हेतुरूपादिपर्यायकथनम् ; एतच्च पर्यायाभिधानं प्राधान्येन चतुष्पादस्यैव भेषजस्य ; यदुक्तम् --"चतुष्पादं पोड़शकलं भेपमिति भिपजो भाषन्ते।” एवमुक्तभेषजागरूपतया तु स्थावरजङ्गमरूपद्रव्यस्य भेषजस्य भेषजत्वमेवावान्तरस्य व्यवहारकृतं ज्ञ यम् ; 'प्रायश्चित्तम्' इति भेपजसंज्ञा प्रायश्चित्तवदर्भपजस्याधर्मकार्यव्याधिहरत्वेन । द्वैविध्यं विवृणोति--स्वस्थस्येन्यादि । किञ्चिदिनि न सर्वम् ; स्वस्थत्वेन व्यवह्रियमाणम्य पसो जरादिम्वाभाविकव्याधिहरत्वेन तथा प्रहर्षव्यवायक्षयित्वानुपचितशक्रत्वाद्य
+ प्रायश्चित्तमिति च पाठो दृश्यते।
ऊर्जस्करम्” इति पाठश्चक्रसम्मतः ।
For Private and Personal Use Only