________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Acharya Shri ka
रसायनपाद १
२२६४
चरक-संहिता। दीर्घमायुः स्मृति मेधामारोग्यं तरुणं वयः। प्रभावर्णस्वरौदार्य-देहेन्द्रियबलं परम् ॥ वाकसिद्धिं प्रणति कान्तिं लभते ना रसायनात् ।
लाभोपायो हि शस्तानां रसादीनां रसायनम् ॥ ६ ॥ वृष्यन्तु न प्रायेण रोगाणां विशेषेण प्रशमकं किन्तु प्रशमकमिति रसायन वृष्ययोर्भेदः। तदाह हुभयमित्यादि। उभयं रसायनं वृष्यञ्चेति द्वयमेव यस्मादुभयार्थकृत् रोगहरणस्वस्थौजस्करणार्थकृत्, तस्मात् तयोर्भदार्थ प्रायःशब्दोऽत्र विशेषार्थ इति बोध्यम् ।। ४ । ५॥
गङ्गाधरः-ननु रसायनं किं तत् स्यादित्यत आह- दीर्घमित्यादि। दीर्घमित्यायुरिति योज्यं. लिङ्गविपरिणामात् स्मृत्यादिष्वपि योज्यम्, अन्यथा स्मृतिमेधादिमन्तः सर्ने जन्तवो भवन्ति कश्चास्य गुणप्रकर्ष इति । औदार्य मुदारता महत्त्वमित्यर्थः। दीर्घायुःस्मृत्यादयो व्यस्तसमस्ता रसायनाल्लभ्या न तु समस्ता एव ; तथा च दीर्घायुःस्मृत्यादिकवत्वं रसायनखम् । ननु कुतो दीर्घायुःस्मृत्यादिलाभोऽस्मात् कुतो वा रसायनेतिसंशत्येत आह-लाभेत्यादि। हि यस्मात् । शस्तानां प्रशस्तानां यथायोगं वक्ष्यमाणशताधिकाद्यायुःपर्यन्ततारुण्यावस्थावस्थानानां रसादीनाश्च रसकार्यरसरक्तादीनां धातूनामयनं लाभोपायो रसायनं, तस्माद दीर्घायुःस्मृत्यादिकं रसायनाल्लभते। तन्त्रान्तरे तु “यजराव्याधिविध्वंसि भेषजं तद भवति। यथा-क्षतक्षीणोक्तं सर्पिगुंडादि रसायनं वृष्यञ्च भवति, तथा पाण्डुरोगोक्तो योगराजो रसायनत्वेनोक्तः, तथा कासाधिकारेऽगस्त्यहरीतकी रसायनत्वेनोक्तेत्यायनुसरणीयम् । रसायनोक्तानाञ्च ज्वरादिहरत्वमत सुव्यक्तमेव रसायनग्रन्थेष्वनुब्रुवते ; यव्याधिहरं, तद्रसायनम् ; किन्तु शरीरसंयोगदााद दीर्घायुःकर्तृत्वसाधारणधर्मयोगादुपचरितं व्याधिहराणां रसायनत्वमिहोच्यते इति । ननु यदि स्वस्थोर्जस्करमपि व्याधिहरं व्याधिहरञ्च स्वस्थोर्जस्फरम्, तत् किं 'किञ्चिद्' इति पदेन भेषजकर्मव्यवस्थादर्शकेन क्रियताम् ? ब्रूमः-बाहुल्येन स्वस्थो स्करत्वं व्याधिहरत्वञ्च व्यवस्थाप्यते, न चेह सर्वार्तरोगहरस्य स्वस्थोर्जस्करत्वमिति प्रतिज्ञायते, येन पाठासप्तकादीनामपि रसायनत्वम् ; साधारणशक्तित्वादातरोगहरत्वेन यदुच्यते, तदपि रसायनं वाजीकरणञ्च भवतीति लवमात्रोपदर्शनं क्रियते, तत् स्वस्थार्त्तयोरुभयार्थकर्तृत्वम् ; 'प्रायः'शब्दतात्पर्य विवृणोति-प्राय इत्यादि। विशेषार्थ इति बाहुल्यार्थ इत्यर्थः ॥ ४ ॥५॥
चक्रपाणिः-रसायनकार्यमाह-दीर्घ मित्यादि। प्रभादीनां त्रयाणामौदार्य योजनीयम् ;
For Private and Personal Use Only