________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५५०.
चरक-संहिता। रक्तपित्तचिकित्सितम् विनीय रक्तपित्तघ्नं पेयं स्यात् तण्डुलाम्बुना। युक्तं वा मधुसर्षिभ्यां लिह्याद् गोऽश्वशकूद्रसम् ॥ ३५ ॥ खदिरस्य प्रियङ्गणां कोविदारस्य शाल्मलेः । पुष्पचूर्णानि मधुना लिह्याद वा रक्तपित्तनुत् ॥ शृङ्गाटकानां लाजानां मुस्तखज्ररयोरपि । लिह्याच्चूर्णानि मधुना एझानां केशरस्य च ॥ ३६ ॥ रक्तं लिह्याद् धन्वजानां मधुना मृगपक्षिणाम् ।
सक्षौद्र ग्रथिते रक्त लिह्यात् पारावतं शकृत् ॥ ३७॥ उशोरकालीयकलोध्रपद्मक-प्रियङ्गुकाकटफलशङ्खगैरिकाः। पृथक् पृथक् चन्दनतुल्यभागिकाः सशकरास्तण्डुलधावनप्लुताः॥ तण्डुलाम्बुना वा पलमितेन पेयम्। युक्तं वेत्यादि। गोऽश्वयोः प्रत्येकं द्वयोर्वा शकूद्रसं मधुसर्षिभ्यां युक्तं लिह्यात् ॥ ३५॥
गङ्गाधरः-ख दिरस्येत्यादि। कोविदारो रक्तकाञ्चनम्। खदिरादीनां प्रत्येकं पुष्पचूर्णानि कर्षमानानि मधुना लिह्यात्। पद्मानां केशरस्य च चर्णानि मधुना लिह्यात्। केचित् तु पद्मानां पुष्पचर्णानि केशरस्य नागकेशरस्य च पुष्पचर्णानि मधुना लिह्यादित्याहुः ॥३६॥
गङ्गाधरः-रक्तमित्यादि। धन्वजानां जाङ्गलदेशजानां मृगपक्षिणां मृगाणां पक्षिणां वा रक्तं मधुना लिह्यात्। यद्यपि रक्तं रक्तं वद्धेयते तथापि विपर्यस्तार्थकारिखात् रक्तपित्तं शमयेत् प्रभावात् । ग्रथिते रक्ते रक्तपित्ते पारावतशकृद् सक्षौद्रं पिबेत् ॥३७॥
गङ्गाधरः-उशीरेत्यादि। उशीरादयः गरिकान्ताः अष्टौ प्रत्येकं रक्तचन्दनतुल्यभागेन चर्णीकृत्य समशकरया मिश्रीकृत्य तण्डुलोदकप्लुतीकृत्य तेनाल्पमानस्य कर्षस्य कर्तव्यता। तेनैव विधिनेति आटरूपकनिय्यू' हयुतम् । खदिरस्येत्यादौ बहुवचनान्तत्वाद रक्तपित्तनुदिति विशेषणं पुरुषस्य ज्ञेयम् । धन्वजानामिति जाङ्गलानाम् ॥३२-३७॥
चक्रपाणिः-- उशीरादौ पृथक् पृथगिति वीप्सायां प्रत्येक मुशीराणां चन्दनसमानां प्रयोगं दर्शयति । तथाचाष्टौ प्रयोगा भवन्ति । सशकरा इति वचनेनात शर्करा समभागा एव देया। उक्तं ह्यग्निवेशे-माषिकं हिङ्ग सिन्धूत्थं लवणाद्यास्तु शाणिकाः। सितोपलागुड़क्षाराः सामान्यैषां
For Private and Personal Use Only