SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ अध्यायः ] चिकित्सितस्थानम् । २५५१ रक्तं सपित्तं तमकं पिपासां दाहञ्च पीताः शमयन्ति सद्यः । किराततिक्तं क्रमुकं समस्तं प्रपौण्डरीकं कमलोत्पले च ॥ हीवेरमूलानि पटोलपत्र दुरालभा पर्यटकं मृणालम् । धनञ्जयोडुम्बरवत्सकत्वङ् - न्यग्रोधशालेययवासकत्वक् ॥ तुगालता केशरतण्डुलीयं ससारिवा मोचरसः समङ्गा । पृथक् पृथक् चन्दनयोजितानि तैनैव कल्पेन हितानि तत्र ॥ निशि स्थिता वा स्वरसीकृता वा कल्कीकुता वा मृदिताः श्रुता वा । एतै समस्ता गरणशः पृथग् वा रक्तं सपित्तं शमयन्त्युदीर्णम् ॥३८॥ पाताः अष्टौ योगा इमे सो रक्तपित्तादिकान् शमयन्ति । किराततिक्तमित्यादि । क्रमुकं गुवाकं, प्रपौण्डरीकं पुण्डरीकका कमलं पद्मम्, उत्पलं नीलोत्पलं, हीवेरं बालकं तस्य मूलानि, मृणालं पद्मानां ह्रस्वमृणालं न तूशीरं तस्योक्तत्वात्, धनञ्जयोऽज्जनः, शालेयं जम्बूः, यवासकस्य दुरालभायास्वक्, तुगा वंशलोचना, लता श्यामलता, केशरं नागकेशर, सारिवा अनन्तमूलं, समङ्गा वराहक्रान्ता मञ्जिष्ठा वा । एतानि पृथक पृथक् चन्दनयोजितानि रक्तचन्दनयुक्त सशर्करं तण्डुलधावनतोयेन पीतं तत्र रक्तपित्ते हितमित्यर्थः । एषां कल्पनान्तराण्याह - निशीत्यादि । एते उशीरादयः समस्ताः समङ्गान्ता एकीभूताः, गणशो वा उशीरादिचन्दनान्त एको गणः, किराततिक्तादिचन्दनान्तस्तु अपरो गणः, इति द्वौ गणौ पृथक पृथक् । अथवा उशीरादयः समस्ताः पृथक पृथक् एकैकं द्रव्यं वा निशि स्थिताः शीतकषायीकृताः, किंवा स्वरसीकृता प्रकल्पना । यस शर्करायाः प्रक्षेयत्वं प्रक्षेपन्यायेनैव शर्करा देया । किरातादयोऽपि पृथक् पृथक् । क्रमुकं पट्टिकालोधन् । धनञ्जयोऽर्जुनः । समङ्गा वराहक्रान्ता लज्जालुरिति । चन्दन - योजितानीत्यनेन समचन्दनत्वं प्रत्येकं द्रव्यप्रयोगाणाम् । तेनैव कल्पेनेत्यनेन सशर्करत्वं तथ्डुलधावनाप्लुतत्वञ्चोच्यते । निशि स्थिता इत्यनेन किराततिक्तादीनां कल्पनामाह । निशि स्थिता वेत्यनेन शीतकषाय उच्यते । चूर्णग्रहणेन फाण्टग्रहणं क्रियते । यतः सुश्रुते पाठभेदाच्च पयते । क्षीरं रसः कल्कमथो कषायः श्रुतश्च शीतञ्च तथैव चूर्णम् । कल्पाः षड़ेते खलु भेषजानां यथोत्तरं ते लघवः प्रदिष्टा इति । एवं चूर्णमेव फाण्टस्थाने ब्रुवते । तल तल फाण्टग्रहणादेव स पाठः सु प्रमाणं तदा चूर्णशब्देन च कल्पान्तरमेवोच्यते । इह तु फाष्टस्य श्रुतत्वात् कृष्णात्रेयादिति पठित एव फाण्टो ग्राह्यः । यदुक्तं 'क्षुण्णस्य सलिलात् तप्तात् मृदितादुद्धृतस्य च । यो रसानां द्रवस्तज्ज्ञैः सफाण्टः संप्रकीर्तितः । तेनेह द्रवः कल्क एव स चूर्णशब्देनोच्यते फाष्टम् । सम्प्रति व्यस्तसमस्त For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy