________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४थ अध्यायः
चिकित्सितस्थानम् । २५४९ अटरूषकमृद्वीका-पथ्याकाथः सशर्करः । मधुमिश्रः श्वासकास-रक्तपित्तनिवर्हणः ॥ ३२॥ अटरूषकनि!हे प्रियङ्गु मृत्तिकाञ्जने। विनीय लोध्र सबौद्र रक्तपित्तहरं पिबेत् ॥३३॥ पद्मकं पद्मकिञ्जल्कं वां वास्तुकमुत्पलम् । नागपुष्पञ्च लोधश्च तेनैव विधिना पिबेत् ॥ ३४ ।। प्रपौण्डरीकं मधुकं मधु चाश्वशकूद्रसे। यवासभृङ्गरजसोर्मूलं वा गोशकुद्रसे ॥
गङ्गाधरः-अटरूषकेत्यादि । अटरूषकं वासकमूलखा । त्रयाणां काथे शीते शकरामधुनी प्रक्षिपेत् ॥३२॥
गङ्गाधरः-अटरूषकेत्यादि। अटरूषकमूलकाथे प्रियङ्गसौराष्ट्रमृत्तिकारसाञ्जनलोध्राणि चखारि कल्कीकृत्य मधु च पञ्च काथ्यपादांशं प्रक्षिप्य पिबत् ॥३३॥
गङ्गाधरः-पद्मकमित्यादि। उत्पलं नीलोत्पलम् पद्मकाष्ठादिलोध्रान्तं सप्तद्रव्यं कल्कीकृत्याटरूषकमूलखक्काथे प्रक्षिप्य मधु च प्रक्षिप्य पिबेदित्यर्थः । तेनैव विधिना पिबेदित्युक्तः ॥३४॥
गङ्गाधरः-प्रपौण्डरीकमित्यादि। पुण्डरीयकाष्ठं यष्टीमधु च कल्कीकृत्याश्वशकद्रसे पलमितं प्रक्षिप्य मधु च प्रक्षिप्य पिबेत् । अथवा यवासभृङ्गरजसोर्दरालभाभृङ्गराजयोमलं कषमानं कल्कीकृत्य गोशकृद्रसे पलमिते
चक्रपाणिः--आटरूपकमृीकेत्यादि कामलाहरं केचिदाहुः । आटरूपकनिय्यूह इत्यादि प्रियङ्गा दीनां मिलितानां कल्केन कर्षः, क्षौद्रस्य च कर्षों ग्राह्यः परिभाषाबलात् । उक्तञ्चाग्निवेशेन–कर्ष चूर्णस्य कल्कस्य गुडिकानाञ्च सर्वशः। द्रवशुक्त्या स लेढव्यः पातव्यश्च चतुद्र वः । मात्रा क्षौद्रघृता. दोनां क्वाथस्नेहेषु चूर्णवदिति। अन्ये तु ब्रुवते चूर्णादीनां कर्षमानत्वं स्वतः प्रयोगे भवति । अव चाटरूषक्वाथः क्वाथपरिभाषया कार्य्यः कल्कश्च कल्कपरिभाषपा कार्यः। एवं कृते भेषजमूयस्त्वं भवति।
३२०
For Private and Personal Use Only