________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५५४८
चरक-संहिता। [रक्तपित्तचिकित्सितम् ऊर्द्धगे शुद्धकोष्ठस्य तर्पणादिक्रमो हितः। अधोगमे यवाग्वादिर्न चेत् स्यान्मारुतो बली ॥३०॥ बलमांसपरिक्षीणं शोकभारामकर्षितम्। । ज्वलनादित्यसंतप्तमन्यैर्वा क्षीणमामयैः ॥ गर्भिणी स्थविरं बालं रुताल्पप्रमिताशिनम् । अवम्यमविरेच्यं वा यं पश्येद रक्तपित्तिनम् ॥ शोषेण सानुबन्ध वा तस्य संशमनो क्रिया। शस्यते रक्तपित्तस्य परश्चातः प्रवक्ष्यते ॥३१॥
गङ्गाधरः-विरेचनानन्तरमूर्द्धगे किं कर्त्तव्यं तदाह-ऊर्द्धगे इत्यादि। विरेचनेन शुद्धकोष्ठस्य तर्पणादिक्रमो यः पूर्वमत्रवोक्तः स तदा हितः कार्य इति भावः। वमनानन्तरमधोगे कि कार्यमित्यत आह-अधोगमे इत्यादि। यवाग्वादिर्यस्तत्रैव पूर्वमुक्तः पेयादिक्रमः स खधोगमे वमनशुद्धकोष्ठस्य हितः काय्ये इति भावः। तत्र चेद् यदि मारुतो बली न स्यात् । वातोल्वण तु तित्तिरिः स्यादित्यादुाक्तमांसरसो हित इति भावः ॥३०॥ - गङ्गाधरः- बहुदोषवलवतामक्षीणबलमांसानां विधानमुक्त्वा क्षीणबलादयत् कार्य तदाह-बलेत्यादि। बलमांसपरिक्षीणं वा शोककर्षितं वा भारकर्षितं वा अध्यकर्षितं वा ज्वलनोऽग्निरादित्य आतपस्तयोरेकतरेण कर्षितं वा समस्तैः कर्षितं वा अन्यैर्वामयैरादिभिः क्षीणं पुरुषं गर्भिण्यादिकं वा अवम्य वमनायोग्यतया प्रतिषेध्यं वा अविरेच्यं विरेचनानईतया प्रतिषेध्यं वा यं रक्तपित्तिनं भिषक् पश्येत्, शोषेण यक्ष्मणा सानुबन्धं वा यं पश्येत्, तस्य रक्तपित्तिनः रक्तपित्तस्य संशमनी क्रिया शस्यते । सा चातः परं प्रवक्ष्यते ॥३॥
इत्यत्रापि शुद्धकोष्ठस्यापि योज्यम् । न चेत् स्यान्मारुतो बलीत्यनेन यदि मारुतो बली स्यात् तदा मांसोदनमेव देयम् । इति ज्वरोक्तं विधिं सूचयति ॥ २९ ॥३०॥
चक्रपाणिः-संशमनविषयमाह-बलमांसेत्यादि। शोषणति राजयक्ष्मणा ॥३॥
For Private and Personal Use Only