________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्र्थ अध्यायः ] चिकित्सितस्थानम् ।
२५४७ त्रिवृतामभयां प्राज्ञः फलान्यारग्वधस्य च। त्रायमाणां गवाक्ष्या वा मूलमामलकानि वा ॥ विरेचनं प्रयुञ्जीत प्रभूतमधशर्करम् । रसः प्रशस्यते तेषां रक्तपित्त विशेषतः ॥ २८॥ वमनं मदनोन्मिभं मन्थः सक्षौद्रशर्करः। सशर्करं वा सलिलमिखूणां रस एव वा ॥ वत्सकस्य फलं मुस्तं मदनं मधुकं मधु।
अधोगे रक्तपित्ते तु वमनं परमुच्यते ॥ २६ ॥ भवति, संशोधनार्हस्य विरेचनानह -वमनानर्ह भिन्नस्य ऊर्द्ध भागं तद्रक्तपित्तं विरेचनेन हरेत् अधोगन्तु तद्रक्तपित्तं वमनेन हरेत् ॥२७॥ . गङ्गाधरः-तत्र विरेचनयोगानाह--त्रितामित्यादि। त्रितादीनामेकशः प्रभूतमधुशर्करं चर्णादिरूपं विरेचनं यथायोगं मात्रां बुद्धा प्रयुञ्जीत । विशेषतो रक्तपित्ते पारावतादीनां मांसान्येषां त्रितादीनामर्द्धशृते काथे पक्त्वा रसः प्रशस्यते ॥२८॥
गङ्गाधरः-अधोगे वमनमाह-वमनमित्यादि। मन्थो द्रवेणालोड़ितः सक्तुः। द्राक्षादीनामद्धभृतकाथेन लाजादिसक्तन् आलोड्य क्षौद्रशर्करामदनफलकल्कान् यथार्ह मिश्रयिखा यद्रूपं तद्वमनमधोगरक्तपित्तशान्तिकरं भवति । अथवा सशकरं जलमुष्णमेव मदनकल्कमिश्रं वमनम्। अथवा मदनोन्मिश्र इक्षणां रसो वमनः। योगान्तरमाह-वत्सकस्येत्यादि। इन्द्रयवमुस्तकयष्टिः मधूनि त्रीणि काथयिता उप्ण एव तत्र मदनफलकल्कं मधु च प्रक्षिप्य वमनार्थ पातु दद्यात्। परमुत्कृष्टं वमनमिदमुच्यते ॥२९॥ कालकृतं बलमुच्यते। काले संशोधनयोग्येऽनत्युण्णशीतकाले । निरुपद्रवमिति क्रियाविशेषणम् किंवा रक्तपित्तविशेषणम् । विरेचनेनोद्धमागमित्यादिना अनुलोमहरणं रक्तपित्ते निषेधयति । उक्तञ्च प्रतिमार्गहरणं रक्तपित्ते विधीयते इति। रक्तपित्ते विशेषत इत्यनेन रक्तपित्तादन्यत्र कल्कादयोऽपि एषां भवन्ति ॥२६-२८॥
चक्रपाणिः- वमनकारको योगो वमनमुच्यते। मदनस्य दोषाद्यपेक्षया कर्षादिका माना कल्पे वक्ष्यमाणा ज्ञेया। सशर्करे सलिले तथेचरसे मदनयोगादेव वमनकर्तत्वं ज्ञेयम् । अधोगे
For Private and Personal Use Only