________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५४६
चरक-संहिता। रक्तपित्तचिकित्सितम ज्ञात्वा दोषावनुबलौ बलमाहारमेव च। जलं पिपासवे दद्याद बहुशो वाल्पशोऽपि वा ® ॥ २५ ॥ निदानं रक्तपित्तस्य यत्किञ्चित् संप्रकाशितम्। जीवितारोग्यकामैस्तदसेव्यं रक्तपित्तिभिः। इत्यन्नपानमाख्यातं क्रमशो रक्तपित्तनुत् ॥ २६ ॥ वक्ष्यते बहुदोषाणां कार्य बलवताञ्च यत् ।
अक्षीणबलमांसस्य यस्य सन्तर्पणोत्थतम् ॥ - बहुदोषं बलवतो रक्तपित्तं शरीरिणः ।
काले संशोधनाहस्य तद्धरेन्निरुपद्रवम् । विरेचनेनोर्द्धभागमधोगं वमनेन तु॥२७॥ गङ्गाधर-भनु सव्वमाहारं जलश्च किं सर्वस्मै दद्यादित्यत आहशात्वेत्यादि । रक्तपित्ते अनुबलौ अनुबन्धौ दोषौ वातकफो शाखा पुसो बलश्च शाखाहारमेव जलश्च पिपासवे तस्मै बहुशो वा अल्पशो वा दद्यात् ॥२५॥
गङ्गाधरः-अथास्य संक्षेपतः क्रियार्थ निदानवज्जेनमाह-निदानमित्यादि। निदानस्थाने रक्तपित्तनिदानेऽस्मिंश्वाध्याये यत्किञ्चित् रक्तपित्तस्य रोगस्य निदानं संप्रकाशितं, जीवितारोग्यकामैः रक्तपित्तिभिस्तत् सर्चमसेव्यम् । अन्नपाने उपसंहरति-इत्यने त्यादि ॥२६॥
गङ्गाधरः-वक्ष्यते इत्यादि। बहुदोषाणां न बल्पदोषाणां बलवताञ्च न तु दुर्बलानाम्। यत्तद्वक्ष्यतेऽत ऊद्ध मित्यर्थः। अक्षीणेत्यादि। अक्षीणबलादेः शरीरिणो यस्य पुसो बहुदोष सन्तर्पणोत्थितं रक्तपित्तं निरुपद्रवं यद्
चक्रपाणिः - संप्रति पानीयदानविषयप्रकारमाह-ज्ञात्वेत्यादि। दोषाविति वातकफौ । पित्तन्तु नायकमेव नानुबलम् । विसर्गादिति विरतेर्यावदिच्छमित्यर्थः। पक्षान्तरमाह-अल्पशो वा स्तोकं स्तोकमित्यर्थः। अत्र यदि बलवानग्निः शरीरञ्च महत् तदा विसर्गपर्य्यन्तं जलं देयं, विपर्यये तु पानीयं नातिपथ्यं तेनाल्पशो देयम् ॥ २५॥ - चक्रपाणिः-रक्तपित्तनिदानवजनार्थमाह-निदानमित्यादि। वक्ष्यते इत्यादिना संशोधनानि प्रधानभेषजत्वादुच्यन्ते। अक्षीणबलमांसस्य इत्यनेन सहजा बलहानिरुच्यते। बलवत इत्यनेन
. विसर्गादल्पशोऽपि वा इति चक्रष्टतः पाठः ।
For Private and Personal Use Only