SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्थ अध्यायः] चिकित्सितस्थानम्। २५४५ शशः सवास्तुकः शस्तो विबन्धे रक्तपित्तिनाम्। वातोल्वणे तित्तिरिः स्यादूडम्बररसे शृतः॥ मयूरः प्लक्षनिर्य्यहे न्यग्रोधस्य च कुक्कुटः। रसे विसोत्पलादीनां ® वर्त्तकक्रकरौ हितौ ॥ २३॥ तृष्यते तिक्तकैः सार्द्ध तृष्णाघ्नं वा फलोदकम् । सिद्धं विदारिगन्धाद्यः शृतशीतमथापि वा ॥ २४ ॥ गङ्गाधरः-अधिका च कल्पना काचिदुच्यते-शश इत्यादि। वास्तुकशाकं शशमांसञ्चैकत्र पक्त्वा कृतो रसः विबन्धे मलविबन्धे. शस्तः । उडू म्बरफलरसे शृतः पक्कस्तित्ति रिमांसरसः वातोल्वणे हितः। मयर इत्यादि। प्लक्षस्य पट्याः काथे मयरमांसं पक्त्वा कृतो रसो वातोल्वणे, न्यग्रोधस्य च काथे पक्त्वा कुक्कुटमांसकृतो रसो वातोल्वणे, मृणालोत्पलादीनां काथे वर्तकमांसं करमांसं वा पक्त्वा कृतो:रसो वातोल्वणे हितः ॥२३॥ गङ्गाधरः-अथ जलमाह--तृष्यत इत्यादि। तृष्यते रक्तपित्तिने तिक्तकैस्तिक्तरसद्रव्यैः सार्द्ध तृष्णाघ्नं तृष्णानिग्रहणदशकं जलेन साधयित्वा दद्यात् । अथवा फलोदकं फलं वटोडम्बरकाश्मय्यद्राक्षाखज्जूरादीनां फलं तिक्तकद्रव्यञ्चैकत्र षडङ्गवत् काथयिखा यज्जलं भवति तत् तृष्यते दद्यात्। अथवा विदारीगन्धादरः शालपण्यादिभिः पञ्चभिरपि सार्द्ध फलोदकं सिद्धं कृतं तृष्णाघ्नं तृष्णायां तृष्यते दद्यात् ॥२४॥ चक्रपाणिः-रक्तपित्ते यवागूनामित्यादि । आवस्थिकं भोजनमाह-शश इत्यादि। अब शशः कषायत्वाद्रक्तपित्तहरो भवत्येव । विबन्धहरेण वास्तुकेन संस्कारत्वाद विबन्धहरो भवति । एवं तित्तिरिमयूरादयो ययप्युप्णत्वेन वातहरास्तथापि रक्तपित्ते न हिता उष्णत्वेन ; ततश्च तेषां स्वरसादयो रक्तपित्तहराः साधने नियुज्यन्ते। तथा सति वातं रक्तपित्तञ्च नन्ति । प्रतिनियतसाधकद्रव्योपन्यासात् संयोगमहिम्नैव कार्यकरो भवतीति ज्ञायते। न शशः कषायोऽपि विबन्धं करोति। वास्तुकस्तु संस्कारत्वात् रक्तपित्तं कोपयेदित्यादि विपरीतफलसंभवो नास्ति संयोगशक्तरचिन्त्यत्वात्। वास्तुकरसे एव शशस्य साधनप्रयोग इसरसाहचर्य्यात् । उक्तं हि 'विपचेत् तु वास्तुकरसे शशं विबन्धे पुरीषस्य' इति । इदानीं विदारिगन्धादैयः शृतमुदकमिति आदिशब्देन शालिपादिपञ्चमूलशृतम् ॥ २२-२४॥ * विल्वोत्पलादीनामिति केचित् पठन्ति । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy