________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya St
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1 रक्तपित्तचिकित्सितम्
२५४४
चरक-संहिता। रक्तपित्तचिकित्सितम् रक्तपित्ते यवागूनामतः कल्पः प्रचक्ष्यते। पद्मोत्पलानां किञ्जल्कः पृश्निपर्णी प्रियङ्गका। जले साध्या रसे तस्मिन् पेया स्याद् रक्तपित्तिनाम् ॥ चन्दनोशीरलोधाणां रसे तद्वत् सनागरे। किराततिक्तकोशीर-मुस्तानां तद्वदेव च ॥ . धातकीधन्वयासाम्बु-विल्वानां वा रसे शृताः। मसूरपृश्निपण्योर्वा स्थिरा मुद्गरसेऽथवा ॥ रसे हरेणुकानां वा सघृते सबलारसे। सिद्धाः पारावतादीनां रसे वा स्युः पृथक् पृथक् ॥ इत्युक्ता रक्तपित्तनाः शीताः समधुशर्कराः । यवाग्वः कल्पना चैषां कार्य्या मांसरसेष्वपि ॥ २२ ॥
गङ्गाधरः-अत ऊर्द्ध रक्तपित्ते यवागूनां कल्पः प्रचक्ष्यते। पद्मत्यादि। पड़ावदेतानि चवारि जले संसाध्या शिष्टे तस्मिन् रसे काथे पेया साध्या स्यात् । अपरामाह- चन्दनेत्यादि। तद्वच्चन्दनादीनि चखारि काथयित्वा तस्मिन् रसे काथे पेया साध्या स्याद्रक्तपित्तिनामित्यर्थः। अपरामाहकिरातेत्यादि । अपरामाह-धातकीत्यादि। विल्वं विल्वशलादः तन्मूलखगवा। अपरामाह - मसूरेत्यादि। मसूरपृश्निपण्योः काथे एका पेया। 'स्थिरा शालपर्णी तस्या मुद्गस्य च काथं कृखा परेका पेया। अपरामाह-रसे इत्यादि। हरेणुकान् काथयिखा बलाश्च काथयिखा द्वौ काथौ पुनरेकीकृत्य घृतमनुरूपं तत्र प्रक्षिप्य पेया साध्या स्यात् । अपरामाह-सिद्धा इत्यादि। पारावतादीनामुक्तानां पारावतादीनां कालपुच्छान्तानां नवानां पृथक् पृथक् प्रत्येकमांसस्य रसे सिद्धाः पेयाः स्युः। वाशब्दः पूर्वयोगापेक्षया। उपसंहरति इत्युक्ताइत्यादि। इति रक्तपित्तन्यो यवाग्ख उक्तास्ताः सव्वों एव शीताः शीतीकृत्य समधुशर्कराः प्रयोक्तव्याः। न केवलमेवं कल्पा यषादिषु क्षे याः। एषां पद्मोत्पलकिञ्जल्कादीनां काथरूपेण कल्पना च मांसरसेष्वपि उक्तानां पारावतादीनां मांसरसेषु कर्त्तव्येषु च कार्य्या, न केवलमांसं पक्त्वा रसः काय्यः ॥२२॥
For Private and Personal Use Only