________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४थ अध्यायः] चिकित्सितस्थानम्।
२५४३ शाकार्थ शाकसात्म्यानां तच्छस्तं रक्तपित्तिनाम् । स्विन्नं वा सर्पिषा भृष्टं यूषवद् वा विपाचितम् ॥ पारावतान् कपोतांश्च लावान् रक्ताख्यवर्तकान् । शशान् कपिञ्जलानेणान् हरिणान् कालपुच्छकान् । रक्तपित्ते हितान् विद्याद रसांस्तेषां प्रयोजयेत् । ईषदम्लाननम्लांश्च घृतभृष्टान् सशर्करान् । कफानुगे यूषशाकं दद्याद वातानुगे रसम् ॥ २१ ॥
पित्तनुच्च यत् पर्पटकगुड़चीपत्रकारवेल्लादिकम्। शाकसात्म्यानां न तु शाकासात्म्यानां देयम्। ननु केन प्रकारेण तत् शाकमुपकल्प्यमित्यत आह-स्निनमित्यादि। तत्तत् शाकं खिन्न किञ्चिज्जलं दत्त्वा उत्स्वेध पश्चात् सपिषा भृष्ट शस्तम्। अथवा खिन्न तनिष्पीड्य किश्चिद् यषवत् जलं दत्त्वा पकम् । मांसाशिनो मांसान्याह-पारावतानित्यादि। कपोता घुघु इति लोके। लावा इति सात्भायेरा इति लोके। रक्ताख्यवत्तकान् रक्तवटेर इति लोके। एवमेव सर्वेऽन्नपानादिकेऽध्याये नामतः प्रोक्तास्तत्र द्रष्टव्याः। नन्वेषां मांसमेव पक्त्वा भक्षणार्थ देयं न वेत्यत आह-रसां. स्तेषामिति। न तु मांसानि। तत्राम्लसात्म्यासात्म्यानां रोचनायेंमाह-ईषदित्यादि। दाडिमामलकाम्लेन तेषां पारावतादीनां मांसरसानीषदम्लीभूतान् अनम्लान् केवलान् वा किन्तु द्विविधानेव घृतभृष्टान् गव्ये घृते सन्तल्य शर्करां प्रक्षिप्य प्रयोजयेत्। ननु किं सर्वस्मिन्नेव रक्त पित्ते प्रयोजयेदित्यत आह–कफानुगे इत्यादि। कफानुगे रक्तपित्ते यषशाकं न तु मांसरसं प्रयोजयेत्। वातानुगे रक्तपित्ते तु मांसरसं दद्यान्न तु यूषशाकम् ॥२१॥
निदानं भवति, इतरस्तु जलज एव शाकवर्ग पठितो यः स इह कफाधिके रक्तपित्ते ज्ञेयः। यूषवद् का विपाचितमिति यूषो दाडिमाघम्लद्रव्ययुक्तो विपाच्यते तथायमपीत्यर्थः। किंवा यूपयुक्तं यद् भवति तथा विपाचितमित्यर्थः । रक्ताक्षश्चोरकः । यूषश्च शाकञ्च इति यूषशाकम् ॥२१॥
For Private and Personal Use Only