SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५४२ चरक-संहिता। रक्तपित्तचिकित्सितम् शालिषष्टिकनीवार-कोरदूषप्रसातिकाः। श्यामाकाश्च प्रियङ्गश्व भोजनं रक्तपित्तिनाम् ॥ मुद्गा मसूराश्चणकाः समुकुष्टाढ़कीफलाः। प्रशस्ताः सूपयूषार्थे कल्पिता रक्तपित्तिनाम् ॥ पटोलनिम्बवेवाग्र-प्लक्षवेतसपल्लवाः । किराततिक्तकं शाकं गण्डीरं सकठिल्लकम् ॥ कोविदारस्य पुष्पाणि काश्मर्याश्चाथ शाल्मले। अन्नपानविधौ शाकं यच्चान्यद् रक्तपित्तनुत् ॥ भवति, तदा तस्मै पुसे तत् तर्पणं साम्लमपि कल्पयेत् । ननु केनाम्लेन तत् साम्लं कल्प्यमित्यत आह-दाडिमेत्यादि । अनुरूपेण दापयेत् ॥२०॥ ... गङ्गाधरः-ननु लाजार्थं पेयार्थश्च के के शालय इष्यन्तेऽस्मिन् रोगे इत्यत आह-शालीत्यादि। शालयो हैमन्तिकधान्यानि शूकसंशानि। षष्टिकं प्रैष्मिकं धान्यं शूकाख्यमेव । नीवार इति उडिधान्यम् । कोरदूषः कोद्रवः । प्रसातिका कङ्कः । द्वे चैव ते धान्ये कुधान्याख्ये भवतः। तथा इयामाकोऽपि तृणधान्यं श्यामाघास इति लोके, तस्य वीजम् । प्रियश्च कुधान्यं स्वनामाख्यम् । भोजनमित्यनेन तर्पणपेयादिरूपेण ज्ञापितम्। तत्र सूपयषार्थमाह-मुद्गा इत्यादि। मुद्गः स्वर्णमुद्गः। मुकुष्टको वनमुद्गः। आढ़कीफला इत्यारहर इति लोके । सूपार्थे यषार्थ चेति सूपयूषार्थे । सूपो घनद्रवरूपः, योऽष्टादशगुण चतुर्वेशगुणे वा तोये पादावशिष्टः स्वच्छरूपः। शाकार्थमाह-पटोलेत्यादि। पटोलनिम्बयोः फलं पत्रश्च वेत्राग्रं प्लक्षस्य पत्रं वेतसस्य पानीयामलकस्य पल्लवाः किराततिक्तस्य शाकं पत्रं गण्डीरं दूर्वा कठिल्लकं सुनिषप्णकं कोविदारस्य काञ्चनस्य पुष्पाणि काश्माश्च पुष्पाणि अथ शाल्मलेश्च पुष्पाणि। यच्चान्यदिति। रक्तनुत् चक्रपाणिः-शालीत्यादिनानमाह । नीवाराः प्रशातिका जलमध्ये प्रायो भवन्ति। प्रियङ्ग : कङ्गः। कोरदूषस्य रक्तपित्तहेतुत्वं निष्पावमाषसूपादियुक्तस्यैव महिना निदाने प्रोक्तम् । अयन्तु कषायमधुरलघुत्दात् कोरदृषो रक्तपित्तहर एव इतीह पठ्यते । एवं गण्डीरोऽपि निदाने स्वरसादियुक्त एव हेतुत्वेनोक्तः । स तु केवलो हित एव । किंवा गण्डीरो द्विविधः, तख हरितादिपठितो यः स For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy