________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२ अध्यायः ]
चिकित्सितस्थानम् ।
ऊगे तर्पणं पूर्वं पेयां पूर्व मधोगमे । काल सात्म्यानुबन्धज्ञो दद्यात् प्रकृतिकल्पवित् ॥ १६ ॥ जलं खर्जूर मृद्वीका - मधुकैः सपरूषकैः । श्रुतशीतं प्रयोक्तव्यं तर्पणार्थं सशर्करम् ॥ तर्पणं सघृतचौद्र लाजचूर्णैः प्रदापयेत् । ऊ गं रक्तपित्तं तत् पीतं काले व्यपोहति ॥ मन्दाग्नयेऽम्लसात्म्याय तत् साम्लमपि कल्पयेत् । दाडिमामलकैर्विद्वानम्लार्थञ्चानुदापयेत् ॥ २० ॥
For Private and Personal Use Only
२५४१
गङ्गाधरः- ननु लङ्घनोत्तरं किं कर्त्तव्यमित्यत आह-जगे इत्यादि । सम्यग्लङ्घितस्य ऊर्द्ध गे रक्तपित्ते पूर्वं तर्पणं दद्यात्। अधोगमेऽपि सन्तर्पणोत्थ रक्तपित्ते सम्यग्लङ्घिताय पु' से पूर्व्वं पेयां दद्यात् । तथा यदि लङ्घनार्हो न भवति अपतर्पणोत्थञ्च रक्तपित्तञ्चोद्ध गं भवति, तदा तू गेऽपि पूर्वं तर्पणं 'दद्यात् । एवं यद्यपतर्पणोत्थमधोगं रक्तपित्तं भवति न च पुमान् लङ्घनार्हो भवति, तदा त्वभोगरक्तपित्ते पूर्व्वं पेयां दद्यादित्यभिप्रायेण न विशेषेणोक्तम् ऊर्द्ध गे इत्यादि ।। १९ ।।
गङ्गाधरः- अथ तर्पणार्थं जलमाह । एवमूर्द्ध में तर्पणमधोगे पेया, विरेचनमूद्धेगे वमनमधोगे कार्य्यं तदुत्तरकालं तर्पणपेययोर्विधानं वक्ष्यते । तर्पण - मित्यादि । लाजचणैः खज्जूरादिभृतशीतं सशर्करं जलं सघृतक्षौद्रमेकीकृत्य यथानुरूपं गोलयित्वा यद्रयं द्रवं भवति तत् तर्पयतीति तर्पणं प्रदापयेत् । द्रवेणालोड़िताः सक्तवस्तर्पणमिति लक्षणं ज्ञापितम् । तत् पीतं काल एव रक्तपित्तमूर्द्ध गं व्यपोहति न तु तत्क्षणमिति भावः ।
मन्दान इत्यादि । तत्र यद्यम्लसात्म्यः पुमान् भवति, मन्दाग्निर्वा पूर्वमिति पदेन पश्चाद्बलहासकारकं निवेधयति । कालो हेमन्तादिः । अनुबन्धो दोषानुबन्धः । प्रकृतिः स्वाभाविकी द्रव्याणां गुरुलाघवादिकल्पना । कल्पनं संस्कार इत्यर्थः । एतेन कालं दोषानुबन्धञ्च ज्ञात्वा यस्य यत्स्वभावं द्रव्यं युक्त भवति तेन तर्पणं tara कायेत्यर्थः । खर्जूरादिना जलं घड़ङ्ग विधानेनैव कर्त्तव्यम् । एतच्च जलमल मधुरमपि संसृष्टेऽपि रक्तपित्ते यौगिकं भवति रक्तपित्तव्याधिप्रत्यनीकत्वात् ॥ १८-२० ॥
३१९