________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५४०
चरक संहिता। [रक्तपित्तचिकित्सितम प्रायेण तु समुक्लिष्टमामदोषाच्छरीरिणाम् । वृद्धिं प्रयाति पित्तामुक तस्मात् तल्लङ्घयमादितः ॥ मागों दोषानुबन्धश्च निदानं प्रसमीक्ष्य च। लकनं रक्तपित्तादौ तर्पणं वा प्रयोजयेत् ॥ १७ ॥ हीवेरचन्दनोशीर-मुस्तपर्पटकैः शृतम्। केवलं तशीतं वा दद्यात् तोयं पिपासवे ॥१८॥
सो बलाधिक्यं दोषस्य च रोगादिकं पश्यता भिपजा बलिनां पुसां प्रथमतः प्रारब्धं प्रवृत्तं रक्तपित्तमुपेक्ष्यम्। प्रथमतो न स्तम्भनीयं, केन भिषजा ? येन सिद्धिमिच्छता ॥१६॥
गङ्गाधरः-ननपेक्ष्य किं कर्त्तव्यमित्यत आह–प्रायेणेत्यादि। समुत् क्लिष्टं पित्तांसक प्रायेणामदोषाद वृद्धिं प्रयाति यस्मात् तस्मादादितो लङ्घय लङ्घनेन आचर्यम् । ननु तर्हि किं सर्वष्वेव रक्तपित्तेषु प्रथमतो लवनमेवोपमुपदिश्यते इत्यत आह—मार्गावित्यादि। मार्गाविति द्विवचनं व्यस्तसमस्तार्थम् । लङ्घनवृहणीये हि ये येन लङ्घनीया उक्तास्तत्रोक्तरूपेण वमनविरेचनोपवासात्मकं लङ्घनं रक्तपित्ते आदौ प्रयोजयेत् अपतर्पणादारधोगे च तर्पणं वा प्रयोजयेत् ॥१७॥
गङ्गाधरः-तत्र पिपासायां जलार्थमाह-हीवेरेत्यादि। षडङ्गपरिभाषया हीवेरादिभिः शृतं तोयमथवा केवलं तोयं धृतशीतं पिपासवे रक्तपित्तिने दद्यात् ॥१८॥
संपश्यति हीनदोषत्वं वा तदैव स्तम्भनं कार्यम् । संप्रति कृत्नं लङ्घनहेतुमाह-मार्गावित्यादि । तत्रोद्धमार्गः, सामं पित्तं, कफश्च दोषः, स्निग्धोष्णं निदानं, लङ्घनं प्रयोजनम्। तव्यतिरिक्तन्त मार्गादि, भोजनं तर्पणं वा प्रयोजयेदिति। तर्पयतीति तर्पणमशनम्। यवागृतर्पणं वा ग्राह्यम्। ये तु सक्तुतर्पणं प्राहयन्ति तेषां यवागूदानपक्षो न संगृहीतः स्यात् ॥ १४-१७ ॥
चक्रपाणिः- केवलमिति हीवेरादिरहितम्। जलमेवकं केवलमौषधद्वेषिणे पुरुषाय देयम्।
For Private and Personal Use Only