SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४र्थ अध्यायः ] चिकित्सितस्थानम् । ऊर्द्ध गं कफसंसृष्टमधोगं मारुतानुगम् । द्विमागं कफवाताभ्यामुभाभ्यामनुवर्त्तते ॥ १५ ॥ अक्षीणबलमांसस्य रक्तपित्तं यदश्नतः । तदोषदुष्टमुत्क्लिष्टं नादौ स्तम्भनमर्हति ॥ गलग्रहं पूतिनस्यं मूर्च्छायमरुचिं ज्वरम् । गुल्मं प्लीहानमानाहं किलासं मूत्रकृच्छ्रताम् ॥ कुष्ठान्यशांसि वीसर्प वर्णनाशं भगन्दरम् ॥ बुद्धीन्द्रियोपरोधञ्च कुर्य्यात् स्तम्भितमादितः ॥ तस्मादुपेक्ष्यं बलिनां बलदोषौ प्रपश्यता । रक्तपित्तं प्रथमतः प्रारब्धं सिद्धिमिच्छता ॥ १६ ॥ For Private and Personal Use Only २५३६ - गङ्गाधरः – अत एवाह – ऊर्द्धगमित्यादि । स्निग्धोष्णकारणखादृद्ध गं रक्तपित्तं कफसंसृष्टं स्निग्धेन कफवृद्धया उष्णेन पित्तवृद्धत्वात् । अधोगं मारुतानुगम् उष्णरुक्षत्वकारणस्य उष्णगुणेन पित्तवृद्धेः रुक्षगुणेन वायुवृद्धेरिति । द्विमागमिति उभाभ्यां कारणाभ्यां स्निग्धोष्ण-रुक्षोष्णाभ्यां कफ वातयोः पित्तस्य च कोपात् कफवाताभ्यां संसृष्टं द्विमार्ग रक्तपित्तं भवति ।। १५ ।। इति रक्तपित्तनिदानम् । गङ्गाधरः - अथास्य चिकित्सितमाह - अक्षीणेत्यादि । अक्षीणबलमांसस्य पुसो यह रक्तपित्तं प्रवर्त्तते यच्च रक्तपित्तम् अश्नतो भुक्तवतः तत्क्षणं प्रवर्त्तते, तद् रक्तपित्तं दोषदुष्टं कफादिदोषेण दुष्टं न त्वेकस्मात् प्रवृतं रक्तं यत उक्लिष्ट सवेगमेव तदापि वर्त्तते तस्मादादौ तद्रक्तपित्तं स्तम्भनं नार्हति । कस्मात ? गलग्रहादुपद्रवकरत्वात् । तानाह - गलग्रहमित्यादिद्वाभ्याम् । आदितः स्तम्भितं रक्तपित्तं गलग्रहमित्यादिकान् कुर्य्यात् बुद्धेरिन्द्रियाणाञ्च दशानामुपरोधमप्रसादम् । यस्मादेतान् कुर्य्यात् तस्मात् बलदोषौ प्रपश्यता मार्गादिपञ्च पठितु यदि अधोगे इह रुक्षोष्णमेत्र परं हेतुः स्यात् तस्मादधोगेऽपि स्निग्धोष्णं कदाचित् कारणं भवति । स्निग्धकृतश्च कफोऽपि अधोगे भवति । एवमूर्द्धगेऽपि चिन्तनीयम् । ऊर्द्ध'गं कफसंसृष्टमित्यादावपि प्रायः शब्दसम्बन्धाद् व्यभिचारो ज्ञेयः । अनतइत्यनेन संतर्पणोत्थितं दर्शयति । उत्क्लिष्टमिति प्रवृत्त्युन्मुखं दोषरूपमलाश्रितम् । बलदोषविचारिणेति - यदैव बलहासं
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy