________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५३८
चरक-संहिता। रक्तपित्तचिकित्सितम् यद् द्विदोषानुगं यद् वा शान्तं भूयः प्रवर्तते। मार्गान्मार्ग चरेद् यद् वा याप्यं पित्तभसृक् च तत् ॥ १२॥ एकमार्ग बलवतो नातिवेगं नवोत्थितम्। रक्तपित्तं सुखे काले साध्यं स्यान्निरुपद्रवम् ॥ १३॥ स्निग्धोष्णमुष्णरुनश्च रक्तपित्तस्य कारणम् । अधोगस्योत्तरं प्रायः पूर्व स्यादृर्द्ध गस्य तु ॥ १४ ॥
गङ्गाधरः अन्यथा तु सिध्यतीति किं न वेत्यत आह-यद् रक्तपित्तं द्विदोषानुगं तच्च रक्तपित्तं, यच्च शान्तं भूखा भूयोऽपि प्रवत्तते तत्, यद वा रक्तपित्तं मार्गात् एकस्मात् छिद्रात् प्रवर्तते कालान्तरेण तन्मार्ग हिखान्यं माग चरेत्, तत्तत् सर्व पित्तमसक रक्तपित्तं याप्यम् ॥१२॥
गङ्गाधरः-तहि किमतोऽन्यत् साध्यमित्यत आह–एकमागमित्यादि। याप्यन्वधोगपित्युक्त्या ऊर्द्ध मार्गमेव । सुरवे काले प्राकृतकाले न तु वैकृते ॥१३॥
गङ्गाधरः-सम्पति संग्रहेण कारणमाह-स्निग्धोष्णमित्यादि। पदभेदोगतिभेदेन कारणवख्यापनार्थ, तद् दशयति-अधोगस्यत्यादि। अधोगस्य रक्तपित्तस्य कारणं । प्रायस्तयोः पूर्व स्निग्धोष्णमूद्ध गस्याधोगस्य तूत्तरम् उष्णरुक्षम्॥१४॥ हारिद्रवर्णादिभियुक्त क्षीणस्य कासिनी न सिध्यतीति सिद्धम् । यद् द्विदोषानुगमित्यनेनानुबन्धरूपदोषद्वययोगाद् याप्यत्वमुध्यते। यत् पूर्वं द्विदोष याप्यमित्युक्तं तदनुबन्धिदोषद्वयजन्याभिप्रायेगति न पौनरुक्त्यम्। मार्गान्मार्ग घरेदिति उर्द्धगं मुखं परित्यज्य नासां यातीत्यादिरूपं ज्ञेयम् । उर्द्धगस्य स्वधोगमनेऽधोगत्वाद् याप्यत्वं भवति । अधोगं मार्गान्तरमगच्छदपि स्वत एव याप्यम् । तस्मादूधिोमार्गपरिवर्तोऽत्र विवक्षितः ॥९-१२।
चक्रपाणिः-एकमार्गमित्यादिना साध्यलक्षणम्। एकमार्गमिति सामान्यवचनेऽप्यूद्धमार्ग एव पूर्व लभ्यते। अधोगस्यैकमागगस्यापि याप्यत्वान ग्रहणम् । सुखे काले इति हेमन्ते शिशिरे च। अल मार्गेण तथा दोषेण तथा लक्षणेन साध्यासाध्ययाप्यभेदाः पृथगुक्ताः। अन च साध्यलक्षणयाप्यलक्षणमेलके याप्यत्वमेव। याप्यासाध्यमेलकेऽसाध्यत्वमेव। यथा एकदोषं यदधोगतं तदेकदोषत्वात् साध्यम्, किन्त्वधोगतत्वाद् याप्यम् । यत् त्रिदोषमधोगतत्वेन याप्यं किन्तु विदोषत्वात् असाध्यमेवेति ज्ञेयम् । यदुक्तं-"नासाध्यः साध्यतां याति साध्यो याति स्वसाध्यताम्' इति । 'साध्या याप्यत्वमायान्ति याप्याश्वासाध्यतां तथा' इति च ॥ १३॥
चक्रपाणि:-स्निग्धोष्णमित्यादि। निदानोक्तमपि प्रायिकत्वाद् विशेषोपदर्शनार्थं पुनरिहोच्यते। प्रायःशब्देन कदाचिद् सक्षोष्णमपि उत्तरमूर्द्धगस्य हेतुर्भवति ; तथा स्निग्धोष्णमपि अधोगस्येति दर्शयति। एवज्ञ निदानमार्गानियमे सति मागौं दोषानुषन्धत्वं निदानं प्रसमीक्ष्य च इस्यस
For Private and Personal Use Only