________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४थ अध्यायः
चिकित्सितस्थानम्। २५३७ सप्त च्छिद्राणि शिरसि द्वे चाधः साध्यमूर्द्धगम् । याप्यन्वधोगं मागौं तु द्वावसाध्यं प्रवर्त्तते ॥६॥ छिद्रे भ्य एभ्यः सर्वेभ्यो लोमकूपेभ्य एव च। वर्त्तते तामसंख्येयां गतिं तस्याहुरान्तिकीम् ॥१०॥ यच्चोभयाभ्यां मार्गाभ्यामतिमात्र प्रवर्तते। तुल्यं कुएपगन्धेन रक्तं कृष्णमतीव च ॥ संयुक्तं कफवाताभ्यां कण्ठे सज्जति चापि यत् । यच्चाप्युपद्रवैः सव्वैर्यथोक्तः समभिद्रुतम् ॥ हारिद्रनीलहरित-ताम्रर्वणरुपद्रुतम् ।
क्षीणस्य कासमानस्य यद्वा तच्च न सिध्यति ॥ ११ ॥ तत्र सप्त द्वाराण्याह-सप्तेत्यादि। शिरसि मुखच्छिद्रमेकं, नासिकाच्छिद्रे द्वे, द्वे च्छिद्रे चक्षुषोः, द्वे च्छिद्रे कर्णयोरिति सप्त च्छिद्राणि ऊ या गतेद्वाराणि । अधोगतेस्तु द्वेच्छिद्रे गुदोपस्थयोट्टै द्वारे। यद्यपि स्त्रीणामेकम् अधिकं योनिद्वारं तच्च चकारेण संगृहीतम्। तत्र साध्यमूर्द्धगं याप्यन्त्वधोगम्, तत्र कारणमुक्तं निदानस्थाने। मागौ तु द्वौ यत् प्रवर्तते तदसाध्यम् ॥९॥
गङ्गाधरः-छिद्रेभ्य इत्यादि। एभ्यः सर्वेभ्यो मुखनासानेत्रकणेगुदोपस्थानां छिद्रेभ्यस्तथा लोमकूपेभ्यश्च यद् रक्तपित्तं, वर्त्तते प्रवर्त्तते तस्य रक्तपित्तस्य तां गतिमसख्येयामाहुः । आन्तिकीमन्तकरीम् ॥१०॥
गङ्गाधरः असाध्यलक्षणान्तरमाह-यच्चेत्यादि। यच्च रक्तपित्तमुभाभ्यां मार्गाभ्यामतिमात्र प्रवर्तते, यच्च रक्तं कुणपगन्धेन शवगन्धेन तुल्यम्, अतीव च कृष्णश्च, कफवाताभ्यां संयुक्तञ्च, यद रक्त कण्ठे सज्जति लगति न प्रायेण निःसरति, यच्च रक्तपित्तं यथोक्तः सङ्घरुपद्रवने तु न्यनाधिकः समभिद्रुतम्, हारिद्रादिवर्णयदुपद्रुतं रक्तं न तु शरीरम्, यद् वा क्षीणस्य कासमानस्य रक्तपित्तम्, तच्च सर्व रक्तपित्तं न सिध्यति ॥११॥ प्रकारान्तरमप्यसाध्यमाह-सप्त च्छिद्रेत्यादि । यच्चोभयाभ्यामित्यादिना कृष्णमतीव चेत्यन्तेनासाध्यतालक्षणमाह । अत्र मार्गाभ्यामित्यनेन यौगपद्य न मार्गप्रवृत्तिर्व्यवस्थिता। किन्तु प्रत्येकं मागद्वयप्रवृत्तस्य साध्यत्वं पूर्वमेवोक्तत्वात् । कुणपगन्धेनेति शवगन्धेन। कप्ठे सजतीति कण्ठाद वहिन याति । यथोक्तैरिति निदानोक्तैः । तदाह । उपद्रवाः खलु दौर्बल्यारोचकादयः स्वरभेदान्तोक्ताः ।
For Private and Personal Use Only