SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५३६ चरक-संहिता। रक्तपित्तचिकित्सितम् एकदोषानुगं साध्यं द्विदोषं याप्यमुच्यते। यत् त्रिदोषमसाध्यं तन्मन्दाग्नेरतिवेगवत् । व्याधिभिः क्षीणदेहस्य वृद्धस्यानश्नतश्च यत् ॥८॥ गतिरूद्ध मधश्चैव रक्तपित्तस्य दर्शिता । ऊर्धा सप्तविधद्वारा द्विद्वारा त्वधरा गतिः॥ गङ्गाधरः-अस्य साध्यासाध्यत्वे आह-एकदोषत्यादि। मन्दाग्नेर्जनस्य अतिशयवेगवत् सर्वं रक्तपित्तम् असाध्यं स्यात् । यच्च रक्तपित्तं व्याधिभिः अन्यः क्षीणदेहस्य वृद्धस्य वा अनश्नतश्च वा, तत् समसाध्यं स्यात् ॥८॥ गङ्गाधरः-गतिरिति निदानस्थाने रक्तपित्तनिदाने दर्शिता। तत्र दर्शिता तूर्द्ध गरक्तपित्तस्य गतिः सप्तविधद्वारा भवति अधरा तु गतिद्विद्वारा । पित्तापेक्षया पैत्तिके रक्तपित्ते उल्वणं पित्तं भवति, यतस्तत्रैव पित्तं स्वलक्षणानि करोति, नान्यत्र । एवं व्यवस्थिते यदुच्यते केवलपैत्तिकस्य रक्तपित्तस्य मार्गो नास्ति, यतो वातारब्धमधो याति, कफारब्धमूर्द्ध मिति प्रतिपादितम् ; तदपि न । यतः पैत्तिकस्यापि ऊर्द्धगमनमधोगमनं वा भवत्येव । परं पैत्तिकं यदूर्द्ध" याति, तन्मार्गमहिन्ना कफसंयुक्तं भवति, यच्चाधो याति, तद् वातस्थानसम्बन्धाद् वातानुगतं भवति । मार्गसम्बन्धानुगतश्च दोषः स्वलक्षणकारकत्वान्नानुबन्धः । तेनासौ पैत्तिके रक्तपित्तेऽपि “एकदोषानुगं साध्यम्" इत्यादिवचनेषु न गृह्यते, यतः स्वतन्त्रो व्यक्तलिङ्गश्च दोषोऽनुबन्ध्यः, तद्विपरीतस्त्वनुबन्धः । तेन, यथोक्तलक्षणकारिणा दोषणानुबन्ध्येन वातिकादि व्यपदेशो रक्तपित्तेषु, न मार्गसम्बन्धानुगतेन च लक्षणकारिणानुबन्धरूपेणेति। अन्ये तु, प्रदेशान्तरचितेन पित्तेन यदोत्तरकालं रक्तपित्तमम्बन्धो भवति, तदा पैत्तिकं रक्तपित्तं भवतीति ब्रुवते ॥ ७ ॥ चक्रपाणिः-सम्प्रति साध्यासाध्यविभागमाह-एकेत्यादि। एकदोषानुगमिति उक्तैकदोपलक्षणयुक्तम् ; एवं द्विदोषमपि दोषद्वयलक्षणयुक्तम् । एवं त्रिदोषमपि ज्ञेयम् । ननु मार्गसम्बन्धानुगतमपि दोषं प्रक्षिप्य द्विदोषत्वं विदोषत्वं वा गणनीयम्, तथाहि केवलं रक्तपित्तं याप्यं स्यादेवेति। तथा सम्प्राप्तिप्राप्तं दोषं गृहीत्वा मार्गसम्बन्धानुगतेन वायुना कफेन वा योगाद द्विदोषजत्वमेव सर्वदा स्यात्, तथा 'एकदोषानुगं साध्यम्' इति यदुक्तं तन्न स्यात्। तस्माद यथोक्तमेव साधु। मन्दाग्नेरतिवेगवदिति पृथगेवासाध्यलक्षणम् । व्याधिभिः क्षीणदेहस्येत्यादि च पृथगेव ॥ ८॥ चक्रपाणिः-गतिकृतं साध्यादिभेदं दर्शयितु गतिभेदमेवाह-- गतिर्द्ध मित्यादि। गति For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy