________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थोऽध्यायः। अथातो रक्तपित्तचिकित्सितं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः॥१॥ विहरन्तं यतात्मानं पञ्चगङ्गे पुनर्वसुम् । प्रणम्योवाच निर्मोहमग्निवेशोऽग्निवर्चसम् ॥ भगवन् रक्तपित्तस्य हेतुरुक्तः सलक्षणः। वक्तव्यं यत् परं तस्य वक्तुमर्हसि तद् गुरो ॥२॥
__ गुरुरुवाच। महागदं महावेगमग्निवच्छीघ्रकारि च। हेतुलक्षणविच्छीघ्र रक्तपित्तमुपाचरेत् ॥ ३ ॥ तस्योष्णं तीक्ष्णमम्लञ्च कटूनि लवणानि च। घर्मश्चान्नविदाहश्च हेतुः पूर्वञ्च दर्शितः॥४॥ गङ्गाधरः-अथात इत्यादि। पूर्ववत् सव्वम् ॥१॥
गङ्गाधरः-विहरन्तमित्यादि। पञ्चगङ्गे विहरन्तं यतात्मानं निम्मोहमग्निवर्चसं पुनर्वसुं गुरुं प्रणम्याग्निवेश उवाच। भगवन्नित्यादि। उक्त इति निदानस्थाने रक्तपित्तनिदाने उक्तः। तदधिकं यद् रक्तपित्तस्य वक्तव्यं तद् वक्तुमर्हसीति ॥२॥ __गङ्गाधरः-गुरुरुवाचेनि । पृष्टो गुरुरुवाच । महागदमित्यादि । महावेगखाद् अग्नेरिव शीघ्रकारिखान्महागदं रक्तपित्तं हेतुलक्षणवित् शीघ्रमुपाचरेत् । तस्य रक्तपित्तस्य हेतुरुष्णं, तीक्ष्णमम्लं, कटु लवणानि च द्रव्याणि, घम ___ चक्रपाणिः-व्याध्युत्पत्तौ ज्वरसन्तापाद् रक्तपित्तोत्पत्तेवरचिकित्सितमनु रक्तपित्तचिकित्सितम् अभिधीयते। पञ्चगङ्गो देशविशेषः। वक्तव्यं यत् परमिति उक्तरक्तपित्तहेतुलक्षणातिरिक्त चिकित्सितमित्यर्थः ॥ १ ॥२॥
चक्रपाणिः-निदाने यद्यपि रक्तपित्तस्य हेतुलक्षणानि प्रतिपादितान्येव, तथापीह चिकित्सापरिवारतया प्रकरणवशाद हेतवः, सङ्घ पेण लक्षणानि च प्रायःप्रादुर्भवाणि पुनः कध्यन्ते । धर्म आतपः। अन्नविदाहश्च स्वरूपविदाहिवेणुजादिभक्षणाद् भवति, तथा पित्तेनानवहस्रोतसो
३१८
For Private and Personal Use Only