SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५३४ चरक-संहिता। रक्तपित्तचिकित्सितम् तैहेतुभिः समुक्लिष्टं पित्तं रक्तं प्रपद्यते। तद्योनित्वात् प्रपन्नञ्च वर्द्धते तत् प्रदूषयत् ॥ तस्योष्मणा द्रवो धातुर्धातोर्धातोः प्रसिच्यते। विद्यतस्तेन संवृद्धिं भूयस्तदधिगच्छति॥ संयोगाद् दृषणात् तत्र सामान्याद् गन्धवर्णयोः। रक्तस्य पित्तमाख्यातं रक्तपित्तं मनीषिभिः॥५॥ आतपः, अन्नविदाहोऽपरिपाकः अद्धपाको वा। तथा पूर्वश्च निदानस्थाने हेतुर्दर्शितः॥४॥ गङ्गाधरः-हेतुमुक्त्वा सम्प्राप्तिं निरुक्तिश्चाह-तैरित्यादि। तैरिहोक्तः पूर्व रक्तपित्तनिदाने चोक्तहेतुभिः समुक्लिष्टम् उपस्थितवेगं पित्तं रक्तं द्वितीयं धातु प्रपद्यते, रक्तप्रपन्नश्च पित्तं तदयोनिखात् तस्य रक्तस्य योनियोनियस्य तत्त्वात् रक्तसमयोनिकवसामान्यात् तद्रक्तं प्रदूषयत् सत् वद्धते, तस्य वृद्धस्य सरक्तपित्तस्योष्मणा स्विद्यतः स्विन्नीभवतो धातोर्धातोर्यो द्रवो धातुः द्रवोऽशः स तस्मात् तस्माद धातोर्धातोः प्रसिच्यते तेन खोष्मणा स्विद्यतः सर्वधातुतः सिक्तेन द्रवेणांशेन मिलिखा भूयोऽधिकं संवृद्धिमधिगच्छति । तत्र पित्ते, रक्तस्य संयोगात् पित्तेन दूषणाच्च पित्तेन सह गन्धवर्णयोश्च रक्तस्य सामान्यात् मनीषिभिः पित्तमेव, रक्तपित्तमाख्यातम् ॥५॥ इष्टत्वाद् विदाहो हितभोजनेनापि भवति ; यदुक्तन्यत्र-'स्रोतस्यन्नवहे पित्तं पक्ती वा यदि तिष्ठति । विदाहिभुक्तमन्यद् वा तस्याप्यन्नं विदह्यते ॥” इति ॥ ३ ॥ ४ ॥ - चक्रपाणिः-तैहे तुभिरित्यादिना सम्प्राप्तिमाह। रक्तं प्रपद्यते गच्छतीत्यर्थः । यद्यपि पित्तञ्च, "स्वेदो रक्त लसीका अन्तराधिरामाशयश्च पित्तस्य स्थानम्" इति वचनेन स्वभावादेव रक्तं याति, तथापि रक्तपित्तसम्प्राप्तौ प्रधानस्थानादामाशयरूपाद रक्तगमनं पित्तस्येह ज्ञेयम् । रक्तगमनञ्च पित्तस्य सम्प्राप्तिमहिन्ना भवति। तद्योनित्वादिति-तयोनित्वं हेतू रक्तप्रपनस्य पित्तस्य व ने ज्ञेयं ; तेन यत्माद रक्तयोनि पित्तम्, तस्माद रक्तं प्राप्य वर्द्धत इत्यर्थः । उक्तं हि "असृजः पित्तं कफम्" इति । तदिति रक्तं प्रदूषयत् । द्रवधातुरिति द्रवरूपोऽशः। धातोर्धातोरिति रसादेः। प्रसिच्यते इति क्षरति । स्विद्यतस्तेनेति पित्तोष्मणा स्विधमानधातुभ्यः च्युतेन द्रवरूपेण धातुना युक्तं सत् पित्तं भूयोऽतितरां वृद्धि गच्छतीति योजना। रक्तपित्त-संज्ञानिमित्तमाह-संयोगादित्यादि। रक्तस्य संयोगात् — तथा रक्तस्य दूषणात् तथा रक्तस्य गन्धवर्णयोः पित्ते सामान्यात् पित्तं रक्तपित्तमुच्यत इति वाक्यार्थः ॥ ५॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy