SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्य भध्यायः ] चिकित्सितस्थानम् । २५३१ अभ्यशोद्वर्त्तनस्नान-धूपनान्यञ्जनानि च । हितानि पुनरावृत्ते ज्वरे तिक्तघृतानि च ॥ २२७॥ गुलभिष्यन्यसात्म्यानां भोजनात् पुनरागते। लानोष्णोपचारादि-क्रमः कार्यश्च पूर्ववत् ॥ २२८॥ किराततिक्तकं तिक्ता-मुस्तपर्पटकामृताः। घ्नन्ति पीतानि चाभ्यासात् पुनरावर्तकं ज्वरम् ॥ २२६ ॥ तस्यां तस्यामवस्थायां ज्वरितानां विचक्षणः । ज्वरक्रियाक्रमापेक्षी कुर्य्यात् तत्तचिकित्सितम् ॥ २३० ॥ रोगराट् सर्वभूतानामन्तकृद दारुणो ज्वरः । तस्माद् विशेषतस्तस्य यतेत प्रशमे भिषक् ॥ २३१ ॥ लघवो यषा मुद्रादीनां जाङ्गलामिषाणां मृगपक्षिणां मांसरसा। अभ्यङ्गादीनि उक्तानि तिक्तघृतानि पञ्चतिक्तघृतादीनि ॥ २२६ । २२७॥ गङ्गाधरः-तत्र विशेषमाह-गुभिष्यन्दीत्यादि। पूर्ववत् नवज्वरादिषु यथा यथा कत्तव्यस्तथा तथा लड्डनादिक्रमः कार्यः॥२२८॥ गङ्गाधरः-सर्वज्वरस्य पुनरावृत्तौ योगानाह–किरातेत्यादि। घन्तीति बहुवचनात् समस्तव्यस्तानीमानि चखारि पीतानि इति काथविधिना निष्पादितानि। अभ्यासात् सततोपयोगात् ॥ २२९ ॥ गङ्गाधरः-नन्वेवमेव पुनराहत्ते ज्वरे किमावस्थिकः क्रियाविशेषोऽस्ति वा न वेत्यत आह-तस्यां तस्यामित्यादि। ज्वरितानां पुनरागृत्तिज्वरवतां तस्यां तस्याम् आमपच्यमानपक्कादो अवस्थायां उक्तरूपेण ज्वरस्य यः क्रियाक्रमः तमपेक्षी तत्तदवस्थामपेक्ष्य तत्तचिकित्सितं कुर्य्यात् न तु सदैव पुराणरूपतां मखा चिकित्सितं कुर्यात् ॥ २३०॥ गङ्गाधरः-अथ ज्वरमतिक्रियायां प्रयत्नावश्यकत्वं वैद्यस्याह-रोगराहित्यादि । तस्य ज्वरस्य प्रशमे विशेषतो यतेत न खवहेलया चिकित्सेत् ॥२३॥ चक्रपाणिः-उक्तानुक्कचिकित्सापरिग्रहणार्थमाह-तस्यामित्यादि। ज्वरचिकित्सायां यत्म For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy