SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (ज्वरचिकित्सितम् २५३० चरक-संहिता। अथवा विपरीपाकं धातुष्वेव क्रमान्मलाः। यान्ति ज्वरमकुर्वन्तस्ते तथाप्यपकुर्वते ॥ २२२॥ दीनतां श्वय, ग्लानिं पाण्डुतां नान्नकामताम् । कण्डूरुत्कोठपिड़काः कुर्वन्त्यग्निश्च ते मृदुम् ॥ २२३ ॥ एवमन्येऽपि च गदा व्यावर्त्तन्ते पुनर्गताः। अनिर्घातेन दोषाणामल्यैरप्यहितैर्नृणाम् ॥ २२४ ॥ निवृत्तेऽपि ज्वरे तस्माद् यथावस्थं यथाबलम् । यथाप्राणं हरेद् दोषं प्रयोगैर्वा शमं नयेत् ॥ २२५ ॥ मृदुभिः शोधनैः शुद्धिर्यापना वस्तयो हिताः। हिताश्च लघवो यूषा जाङ्गलामिषजा रसाः ॥ २२६ ॥ गङ्गाधरः-यदि चायुषः शेषवान संहन्ति अथः तर्हि धातुष्वेव रक्तादिषु क्रमान्मला विपरीपाकं विपाकं यान्ति ज्वरमकुर्वन्तस्तेऽपि मलास्तथाप्यपकुते। किं किमपकुर्वते तदाह-दीनतामित्यादि। नान्नकामतामनन्नकामताम् अग्निञ्च मृदुः मन्दाग्नि ते ज्वरमकुव॑न्तोऽपि धातुषु विपरिपाकं गता मला अपकुन्वन्ति ॥ २२२ । २२३॥ गङ्गाधरः-प्रसङ्गात् सव्वव्याधीनामपि पुनरावर्तनमाह-एवमित्यादि । एवं ज्वर इवान्येऽपि गदा अतिसाररक्तपित्तादयः सर्वे रोगा दोषाणामनिर्घातेन निःशेषेण हरणाभावेन गताश्चाल्पैरप्यहितैर्नृणां पुनर्व्यावर्सन्ते चकाराग्निदानसेवनैश्चेत्यर्थः ॥ २२४ ॥ गङ्गाधरः-ननु तर्हि किं कर्त्तव्यं तदाह-निवृत्तेऽपि इत्यादि। यदि पूर्व दुह तं दोषं मन्येत अथवा सञ्चितमहतश्च मन्येत, तदा तस्मात् पुनरावर्तनभयात् निवृत्तेऽपि ज्वरे यथावस्थं यथाबलं यथाप्राणं पुसो दोषं हरेत् प्रयोगः संशमनर्वा शमं नयेदिति ॥२२५॥ । गङ्गाधरः-अथ याश्चापि पुनरावृत्तं क्रियाः प्रशमयन्ति तमिति प्रश्नोत्तरमाह-मृदुभिरित्यादि। यापना वस्तयो वक्ष्यन्ते सिद्धिस्थाने । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy