________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२ अध्यायः
चिकित्सितस्थानम् । २५२६ व्यायामश्च व्यवायञ्च स्नानं चंक्रमणानि च। ज्वरमुक्तो न सेवेत यावन्न बलवान् भवेत् ॥ २१८ ॥ असंजातबलो यस्तु ज्वरमुक्तो निषेवते। वयमेतन्नवस्तस्य पुनरावर्त्तते ज्वरः ॥ २१६ ॥ दुहृतेषु च दोषेषु यस्य वा विनिवर्त्तते। . स्वल्पेनाप्यपचारेण तस्य व्यावर्त्तते पुनः ॥ २२० ॥ चिरकालपरिक्लिष्टं दुर्बलं दीनचेतसम् ।
अचिरेणैव कालेन संहन्ति पुनरागतः ॥ २२१॥ ज्वरमुक्तश्च तानि वर्जयेत्। तथा तेन प्रकारेण ज्वरः प्रशाम्यति तेन च प्रकारेण प्रशान्तश्च पुनर्न जायते ॥ २१६ । २१७॥
गङ्गाधरः-ननु कियन्तं कालमेव ज्वरमुक्तो रक्ष्य इत्यत आह-व्यायामश्च इत्यादि। चकारैर्विदाहीनि गुरूणि च विरुद्धानि चासात्म्यानि चानपानान्यपि ज्वरमुक्तो न सेवेत यावन्न बलवान् भवेदित्यर्थः । प्रशान्तः कारणेयश्च पुनरावर्तते ज्वर इति प्रश्नोत्तरमाह-असजातबल इत्यादि। वयमेतदिति विदाहीनीत्यादिनात्यशनानि चेत्यन्तेन यावद्वजनीयमुक्तं तदेतद् यद्यसंजातबलो यो स्वरमुक्तो निषेवते तस्य ज्वरः पुनर्भवतीत्यर्थः॥२१८ । २१९॥
गङ्गाधरः-शान्तस्य पुनरावत्तने हेवन्तरमाह-दुहे तेषु इत्यादि। यस्य पुंसो ज्वरारम्भकेषु दोषेषु दुह तेष्वसम्यनिह तेषु ज्वरो विनिवर्तते शाम्यति तस्य पुंसोऽल्पेनाप्यपचारेण ज्वरः पुनावत्तते ॥२२०॥ ___ गङ्गाधरः-पुनरावत्तेज्वरस्य मारकखमाह-चिरेत्यादि । यो ज्वरितः पुमान् चिरकालं पूर्व परिक्लिष्टः दुर्बलश्च तथा दीनचेताः तं ज्वरितं मुक्त्वा ज्वरः पुनरागतश्चेत् तदा अचिरेण कालेन संहन्ति ॥ २२१॥. . व्यवायमतिचेष्टाश्चत्यत्र व्यवायं कृत्वापि पुनः व्यायामश्चेत्यादी 'व्यवाय'पाठेन व्यवायस्यात्यर्थनिषिद्धतोच्यते। भन्ये तु प्रमादपाठ एवायमित्याहुः। स्नानमूज्जस्करमपि प्रभावात् ज्वरं प्रत्यानयति, यदुक्तमन्यस-"स्नानमाशु ज्वरं कुर्यात् ज्वरमुक्तस्य देहिनः। तस्मान्मुक्तज्वरः स्नानं विषवत् परिवर्जयेत्" इति। अनन्तरम् “असातबलो यस्तु" इत्यादिग्रन्थं काश्मीराः पठन्ति, तेन प्रकृत्यादिसूत्रेऽप्यस्यानुगुणं प्रश्नप्रन्यं पठन्ति ॥ २१६-२२१॥ ..
For Private and Personal Use Only