________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५२८
चरक-संहिता। [वरचिकित्सितम् विगतक्लमसन्तापमव्यथं विमलेन्द्रियम्। युक्तं प्रकृतिसत्त्वेन विद्यात् पुरुषमज्वरम् ॥ २१५ ॥ सज्वरो ज्वरमुक्तश्च विदाहीनि गुरूणि च। असात्म्यान्यन्नपानानि विरुद्धानि च वर्जयेत् ॥ २१६ ॥ व्यवायमतिचेष्टाश्च स्नानमत्यशनानि च। तथा ज्वरः शमं याति प्रशान्तो जायते न च ॥ २१७॥
गङ्गाधरः-विमुञ्चतो ज्वरस्य चिह्नप्रश्नोत्तरमुक्त्वा प्रशान्तस्य ज्वरस्य यचिह्न पृष्टं तदुत्तरमाह-विगतेत्यादि। क्लमः क्लान्तिः मनःशरीरयोग्लोनिः इत्यर्थस्तयोचिंगमः। अव्यथं शारीरमानसव्यथयोस्तज्ज्वरजयोः नास्तित्वं, विमलमिन्द्रियं ज्ञानेन्द्रियं यस्य तं, प्रकृतिसत्त्वेन तस्य पुरुषस्य स्वाभाविकं यादृशं मनस्तेन मनसा युक्तं तं पुरुषम् अज्वरं ज्वरमुक्तं विद्यात् ॥२१५॥ .
गङ्गाधरः-अथ पृष्टं ज्वरावसृष्टो रक्ष्यश्च यावत् कालं यतो यत इति यत् तदुत्तरमाह-सज्वर इत्यादि। सज्वर इति अपृष्टोऽपि दिवास्वमादिवद विदाह्यादीन्यपि नवज्वर्यादिभिर्वानि न चोक्तानीत्यतः समानवचनतो लाघवेनवोच्यन्ते। सज्वरः पुरुषो विदाह्यादीनि वर्जयेत्। उक्तश्चान्यत्र "गुब्बंभिष्यन्द्यकाले च ज्वरी नाद्यात् कथश्चन। न हि तस्याहितं भुक्तमायुषे वा सुखाय वा” इति। ननु ज्वरितोऽहितमश्नीयाद् यद्यप्यस्यारुचिर्भवेत् । अन्नकाले ह्यभुञ्जानः क्षीयते म्रियतेऽपि वा” इति वचनादहितमप्यशनं विहितं कथं विदाह्यादीनां वजनमुपदिश्यते इति चेन्न, तद्वचने हि हितमेवाश्नीयादेव इत्यों युक्तः, अन्यथा “सातत्यात् स्वाद्वभावाद वा पथ्यं द्वष्यसमागतम् । कल्पनाविधिभिस्तैस्तैः प्रियत्वं गमयेत् पुनः” इति वचनमनथेकं स्यादिति।
एतानि लक्षणानि ज्वरमोक्षकाले क्षीणेनापि दोषेण क्रियन्ते, यथा निर्वास्यता दीपेन आलोको महान् क्रियते ॥ २१०-२१५॥
चक्रपाणिः-सम्प्रति प्रशान्तज्वरलक्षण'-प्रश्नोस्योत्तरम्-विगतेत्यादि। प्रकृतिसत्वेनेति सहज. सत्त्वेन। ज्वरावसृष्टो रक्ष्यश्च यावत् कालं यतो यत इति प्रश्नस्योत्तरं सज्वर इत्यादि। 'तथा ज्वर शमं याति प्रशान्तो न च जायते' इत्यनेन, 'यतः' इति प्रश्नस्य ज्वरमुक्तसेव्यहेतुप्रश्नरूपस्योत्तरं ज्ञेयम्।
For Private and Personal Use Only