________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३य अध्यायः ]
चिकित्सितस्थानम् । प्रलपत्युष्णसर्व्वाङ्गः शीताङ्गश्च भवत्यपि । विसंज्ञो ज्वरवेगार्त्तः सक्रोध इव वीक्षते ॥ २१९ ॥ सदोषशब्दञ्च शकुद द्रवं सृजति वेगवत् । लिङ्गान्येतानि जानीयाज्ज्वरमोचे विचक्षणः ॥ २१२ ॥ बहुदोषस्य बलवान् प्रायेणाभिनवो ज्वरः । स क्रियादोषपत्त्या चेद् विमुञ्चति सुदारुणम् ॥ २१३॥ कृत्वा दोषवशाद वेगं क्रमादुपरमन्ति ये । तेषामदारुणो मोक्षो ज्वराणां चिरकारिणाम् ॥ २१४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
२५२७
भूखा स्विन्नाङ्गोऽखिलाने स्वेदप्रवाहो भूत्वा मुहुवपते मुहुः शीयते स्वयमेव तदुद्वेगात् शयनमाश्रयते न तु स्वाभिप्रायेण शेते च, मुहुम्मडुः प्रलपति मुहुरुष्णसर्व्वाङ्गः मुहुः स्वेदार्द्रखात् शीताङ्गश्च भवति । ज्वरवेगातः सन् विसंज्ञः संज्ञाहीनश्च भवति । यदा वीक्षते तर्हि सक्रोध इव पश्यतीति लक्ष्यते । तथा शकृत् पुरीषं सदोषशब्द सदोषं पित्तकफयुक्तं सशब्दश्च द्रवश्च वेगवच्च सृजति त्यजति । ज्वरमोक्षे ज्वरेण मोक्षे ज्वरितशरीरत्यागे क्रियमाणे एतानि लिङ्गानि जानीयात् ।। २१०-२१२ ॥
गङ्गाधरः-- नन्वेवंलक्षणानि न सर्व्वस्य, दृश्यन्ते इत्यत आह - बहुदोषस्येत्यादि । बहुदोषस्य पुंसोऽभि वो ज्वरः प्रायेण बलवान् भवति । स ज्वरो बहुदोषजत्वेन बलवत्वात् क्रियादोषपत्त्या क्रियया निरुक्तया लङ्घनादिना दोषाणां पत्त्या पाकेन चेद्यदि विमुञ्चति तदैवमुक्तरूपं दारुणं विमुञ्चति । ये च ज्वराः क्रमात् कालेन दोषपाकवशात् वेगं कृत्वा क्रमादुपरमन्ति नाशं यान्ति तेषां चिरकारिणां ज्वराणां मोक्षोऽदारुण एवंरूपेण न दारुण इत्यर्थः ॥ २१३ | २१४ ||
For Private and Personal Use Only
लीयत इति मुह्यति ; उष्णसर्व्वाङ्गः शीताङ्गश्च भवत्यपीति णसर्व्वाङ्गो वा शीतसर्वाङ्गो वा भवति इत्यर्थः । सदोषशब्दमिति सदोषं सशब्द ति । एतानि लक्षणानि सन्निपातज्वर एव भवन्तीति ज्ञयम् नान्यत, अदर्शनादेव अत एव “बहुदोषस्य बलिनः" इत्यादिमन्थं केोचत् पठन्त्येवास ।