SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५२६ चरक-संहिता। [ज्वरचिकित्सितम् काम्यैरथैमनोज्ञश्च पित्तनैश्चाप्युपक्रमैः। सद्वाक्यैश्च शमं याति ज्वरः क्रोधसमुद्भवः ॥ २०७॥ कामात् क्रोधज्वरो नाशं क्रोधात् कामसमुद्भवः । याति ताभ्यामुभाभ्याञ्च भयशोकसमुद्भवः ॥ २०८॥ ज्वरस्य वेगं कालञ्च चिन्तयन् ज्वर्य्यते तु यः। तस्येष्टश्च विचित्रैश्च विषयैर्नाशयेत् स्मृतिम् ॥ २०६ ॥ ज्वरप्रमोक्षे पुरुषः कूजन् वमन् विचेष्टते।। श्वसन् विवर्णः खिन्नाङ्गो वेपते शीयते ® मुहुः ॥ २१०॥ स्नेहादिना वायोः शान्तिः स्यादिति त्रयाणामेवैका क्रिया। काम्यरित्यादि। क्रोधसमुद्भवो ज्वरो मानसः पित्तानुबन्धस्तस्मात् काम्यमनोस चार्थवस्तुभिः सद्वाक्यैश्च क्रोधोपशमात् पित्तघ्नश्च शीतमधुरादिभिरुपक्रमैः पित्तप्रशमात शमं याति ॥२०६।२०७॥ गङ्गाधरः-कामादीनामपि परस्परोपघातिखात् परस्परभेषजखमाह-कामादित्यादि । ताभ्यां कामक्रोधाभ्यामुभाभ्यां भयशोकसमुद्भवो ज्वरोनाशं याति । कामाद् भयज्वरः क्रोधाच्छोकज्वर इति क्रमेणान्वयवारणाय उभाभ्यामिति ॥२०८॥ गङ्गाधरः-अथ सर्वज्वरसाधारणे क्रियाविशेषमाह-ज्वरस्येत्यादि। चिन्तयन् स्मरन् । तस्य पुंसो ज्वरवेगविस्मरणहेतुभिः ज्वरागमनकालविस्मरणहेतुभिश्च विचित्ररिष्ट विषयैः ज्वरवेगस्य स्मृति ज्वरागमनकालस्य स्मृतिश्च नाशयेत् ॥२०९॥ गङ्गाधरः-इति ज्वरस्य सक्रियाक्रमम् औषधं यत् पृष्टं तदुत्तरमुक्त्वा विमुञ्चतः प्रशान्तस्य चिह्न यञ्च पृथक् पृथगिति यत् पृष्टं तत् तत्र विमुञ्चतो ज्वरस्य यनिह पृष्टं तदुत्तरमाह-ज्वरप्रमोक्षे इत्यादि। ज्वरस्य प्रमोक्षे मोक्षारम्भे । कूजन् वमन् सन् विचेष्टते निश्चेष्टो भवति, ततः श्वसन् सन् विवर्णी वाक्यैः। कामादीनां प्रतिद्वन्द्वेन चिकित्सामाह- कामादित्यादि। ज्वरकालचिन्ताजोऽपि ज्वरः कामादिमानसापचाराद् भवतीति तचिकित्सामाह-ज्वरस्येत्यादि ॥ २०६-२०९॥ चक्रपाणिः-सम्प्रति औषधमभिधाय 'विमुञ्चतः' इति प्रश्नस्योत्तरमाह-ज्वरेत्यादि । * लीयते इति चक्रः। For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy