________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः] चिकित्सितस्थानम् । २५:२५
शापाभिचाराद भूतानामभिषणाच्च यो ज्वरः। दैवव्यपाश्रयं तत्र सर्वमौषधमिष्यते ॥ २०३॥ अभिघातज्वरो नश्येत् ® पानाभ्यङ्गन सर्पिषः । रक्तावसेकमेध्यैश्च सात्म्यैमासरसौदनैः ॥ २०४ ॥ पानाद वा + मद्यसात्म्यानां मदिरारसभोजनैः। क्षतानां व्रणितानाञ्च क्षतत्रणचिकित्सया ॥ २०५ ॥
आश्वासेनेष्टलाभेन वायोः प्रशमनेन च। - हर्षणश्च शमं यान्ति कामशोकभयज्वराः ॥ २०६॥ . गङ्गाधरः-दोषज्वराणां चिकित्सामुक्त्वागन्तुचिकित्सामाह-शापेत्यादि । अभिशापाद् वा अभिचाराद् वा भूताभिषङ्गाद् वा यो ज्वरो जायते, तत्र दैवव्यपाश्रयं बलिमङ्गलादिकं कर्म सर्वम् औषधमिष्यते ॥२०३॥ . गङ्गाधरः-अभिघातेत्यादि। सर्पिषः स्वच्छस्य पकस्य च पानाभ्यङ्गेन नश्येत् नाशं गच्छेत्। तथा रक्तावसेचनरभिहतप्रदेशात् रक्तमोक्षणजेलौकादिभिर्यथायोग्यं मेध्यमेधाहितैः शविन्यादिभिः मांसरसौदनैश्च नश्येत् नाशं गच्छेत् । पानाद वेत्यादि । मद्यपानाद यो ज्वरः स मद्यसात्म्यानां मदिरारसभोजननश्येदिति पूर्वणान्वयः । क्षतानां यो ज्वरो भवति स क्षतचिकित्सया नश्येत् । व्रणितानाश्च यो ज्वरो भवति स व्रणचिकित्सया नश्येत् । क्षत उरःक्षतः। व्रणः शरीरवहिःक्षतम् ॥२०४ । २०५॥
गङ्गाधरः-आश्वासेनेत्यादि। कामशोकभयज्वरा वातजा मानसा अत एवाश्वासेन तथेष्टलाभेन हर्षणैश्च भावैर्मनःप्रसादः स्यात् वायोः प्रशमनेन
चक्रपाणिः- शापेत्यादिना आगन्तुज्वरचिकित्सामाह। न स्यादिति प्रशाम्यतीत्यर्थः। सानाह इति अभिधातज्वर एव सानाहः । क्षतानामित्युरःक्षतानाम् । क्षतचिकित्सया व्रणचिकित्सया च व्रणिनां ज्वरोऽपैतीत्यर्थः । अयं हुपद्रवरूपो ज्वरः। उपद्रवः स मूलव्याधिचिकित्सयैव शाम्यतौति भावः ॥२०२-२०५॥
चक्रपाणिः-वायोः प्रशमनेनेति कामाविल्वरे वातानुबन्धाइपपन्नम्। सवाक्यैरिति शोभनैः
+ सासह इति चक्रः।
• न स्यादिति वा पाठः।
. ३१७
For Private and Personal Use Only