________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२५२४
चरक संहिता |
ब्रह्माणमश्विनाविन्द्र' हुतभक्षं हिमाचलम् । गङ्गां मरुद्गणांश्चेष्टान् पूजयन् जयति ज्वरान् ॥ १६८ ॥ भक्त्या मातुः पितुश्चैव गुरूणां पूजनेन च । ब्रह्मचर्येण तपसा सत्येन नियमेन च ॥ १६६ ॥ जपहोमप्रदानेन वेदानां श्रवणेन च ।
Acharya Shri Kailassagarsuri Gyanmandir
{ ज्वरचिकित्सितम्
ज्वराद विमुच्यते शीघ्र साधूनां दर्शनेन च ॥ २०० ॥ ज्वरे रसस्थे वमनमुपवासञ्च कारयेत् । सेकप्रदेह रक्तस्थे तथा संशमनानि च ॥ २०९ ॥ विरेचनं सोपवासं मांसमेदः स्थिते हितम् । अस्थिमज्जगते देया निरूहाः सानुवासनाः ॥ २०२ ॥
गङ्गाधरः- ब्रह्माणमित्यादि । ब्रह्माणं हिरण्यगर्भं नारायणं हुतभक्षं हुताशनं हिमाचलं हिमगिरिम् इष्टांश्च देवान् पूजयन् ज्वरान् जयति । भक्तप्रत्यादि । सत्येन वाक्येन नियमेन आहारविहारयोः नियमेन साधनां भगवद्भक्तानां तत्त्वविदाम् ।। १९८ - २०० ।
गङ्गाधरः - विषमज्वरहरयोगानुक्त्वा सप्तधातुगतज्वरचिकित्सामाह-ज्वरे इत्यादि । रसस्थे इति रसधातुगते दोषे यो ज्वर उक्तस्तत्र, न तु प्रथमतो रसाश्रयदोषेण जाते ज्वरेऽयमधिकारस्तत्र हि विधानमुक्तम्; इह रसस्थे बमनोपवासौ यथा रक्तस्थे सेकप्रदेहौ यथा तथा रसस्थे संशमनानि यानि निरामज्वरे प्रोक्तानि संशमनानि तानि तथा रक्तस्थे च संशमनानि इति व्याख्येयम् । विरेचनमित्यादि । मांसमेदः स्थिते ज्वरे सोपवासं विरेचनं हितं न तु मांसस्थे विरेचनं मेदःस्थे तूपवास इति यथाक्रमम् । अस्थिमज्जगते ज्वरे सानुवासना निरूहाः बहुवचनान्न त्वेकवारनिरूहप्रयोगेण ज्वरशान्तिः स्यादिति शापितम् । शुक्रस्थे ज्वरे मरणमिति तपजोपदेशोऽनर्थक इति तन्नोक्तम् ।। २०१ । २०२ ।।
For Private and Personal Use Only
मूर्द्धा" इत्यादि वेदप्रतिपादितम् नामसहस्र णेति महाभारतोकन नामसहस्रेण । इति
यज्ञम ॥ १९६ - २०२ ॥