________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः] चिकित्सितस्थानम्। २५२३
ये धूमा धूपनं यच्च नावनञ्चाञ्जनञ्च यत् । मनोविकारे निर्दिष्टं कायं तद् विषमज्वरे ॥ १६४॥ मणोनामोषधीनाञ्च मङ्गल्यानां विषस्य च। धारणादगदानाञ्च सेवनान्न भवेज्ज्वरः ॥ १६५ ॥ सोमं सानुचरं देवं समातृगणमीश्वरम् । पूजयन् प्रयतः शीघ्र मुच्यते विषमज्वरात् ॥ १६६ ॥ विष्णं सहस्रमूर्धानं चराचरपतिं विभुम् । स्तुवन् नामसहस्रण ज्वरान् सर्वान् व्यपोहति ॥ १९७॥ गङ्गाधरः-ये धूमा इत्यादि। मनोविकारे उन्मादापस्मारयोरधिकारे ये धूमाः पानार्था धूपनञ्च यत् नावनं नस्यञ्च यत् तथाञ्जनञ्च यत् निर्दिष्टम् इत्यनेन यत्र यत्र तन्त्र ब्रह्मादिभिः पुरा निगदितं तत् सर्वं विषमज्वरे कार्यम् ॥ १९४॥
गङ्गाधरः-मणीनामित्यादि। मङ्गल्यानां पद्मरागादीनां मणीनां धारणात् तथा मङ्गल्यानामोषधीनामपामार्गादीनां धारणात् तथा विषस्य मौलविषस्य यौगिकस्य न तु हालाहलादेः धारणात् तथा अगदानामगदसंशकयोगानां धारणात् ज्वरो न भवेदित्यनुत्पन्नज्वरस्य पुंसो ज्वरो न भवेत् उत्पन्नज्वरस्य पुसो ज्वरो विनश्येदित्यर्थः ॥ १९५॥
गङ्गाधरः-सोममित्यादि। ईश्वरं देवं शिवं सोमम् उमया सहितं सानुचरं नन्द्यादिभिरनुचरैः सहितं समातृगणं मातृकाभिर्ब्राह्मीमाहेश्वर्यादिभिः अष्टभिः सहितं प्रयतः प्रकृष्टयत्याचारः सन् पूजयन् विषमज्वरात् शीघ्र मुच्यते। विष्णुमित्यादि। सहस्रमूर्द्धानं सहस्रशीर्ष पुरुषं विष्ण परमात्मानं चराचरपतिं विभु सर्वगतं तस्मात् तं नामसहस्रण महाभारतान्तर्गतशान्तिपर्वणि यद् विष्णोर्नामसहस्र स्तोत्रं तेन स्तुवन् सर्वान् ज्वरान् व्यपोहति ॥१९६।१९७॥ इति। मनोविकार इति उन्मादेऽपेमारे च। धारणादिति च्छेदः । अगदानाञ्च सेवनादिति योजना ॥ १८८-१९५॥ - चक्रपाणि:-दैवव्यपाश्रयचिकित्सामाह-सोममित्यादि। सोममिति उमया सह सोमम् । सानुचरमिति नन्दादिगणयुक्तम् । समातृगणमिति समातृसमूहम् । प्रयतः पवित्रः। “सहस्र
For Private and Personal Use Only