SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २५२२ चरक संहिता । लसुनस्य सतैलस्य प्राग्भक्तमुपसेवनम् । मेध्यानामुष्णवीर्याणामामिषाणाञ्च भक्षणम् ॥ १६० ॥ व्याघ्री वसा हिङ्गसमा नस्तः काय्यं ससैन्धवा | पुराणसर्पिः सिंहस्य वसा तद्वत् ससैन्धवा ॥ १६९ ॥ सैन्धवं पिप्पलीनाञ्च तण्डुलं समनःशिलम् । नेत्राञ्जनं तैलपिष्टं शस्यते विषमज्वरे ॥ १६२ ॥ पलङ्कषा निम्बपत्रं वचा कुष्ठं हरीतकी । सर्वपाः सयवाः सर्पिर्धूपनं ज्वरनाशनम् ॥ १६३ ॥ Acharya Shri Kailassagarsuri Gyanmandir [ ज्वरचिकित्सितम् गङ्गाधरः - लसुनस्येत्यादि । खङमध्यरहितस्य लसुनस्य तिलतैलमिश्रितस्य दृशदि पिष्टस्य कर्षस्योपसेवनं प्राग्भक्तं भोजनात् पूर्वं विषमज्वरे कार्य्यम् । मेध्यानां वाराहादीनामुष्णमेध्यमांसानां तथा मत्स्यानाञ्च मेध्यानामुष्णवीर्याणां भक्षणं विषमज्वरे कार्य्यम् । आमिषशब्दो मांस मत्स्यपरः सर्व्वत्र ।। १९० ॥ गङ्गाधरः -- व्याघ्रीत्यादि । वैयाघ्री वसा । कचिन्न वृद्धिराद्यस्य णिति तद्धिते च्छान्दसत्वात् । व्याघ्रस्य शरीरस्नेहः समहिङ्गः समसैन्धव एकीकृत्य नस्तः नस्यं कार्य्यम् । तथा पुराणसर्पिः सिंहस्य वसा देहस्नेहः ससैन्धवा समभागेन त्रीणि मेलयित्वा तद्वत् नस्तः कार्यमधिकारात् विषमज्वरे ॥। १९१ ॥ गङ्गाधरः - सैन्धवमित्यादि । सैन्धवं पिप्पलीताडुलं मनःशिला चेति त्रयं तैलपिष्टं तिलतैलेन पिष्टं नेत्राञ्जनं विषमज्वरे शस्यते ।। १९२ ।। गङ्गाधरः – पालङ्कषेत्यादि । सर्षपाः श्वेतसर्षपाः । समभागेन पलङ्कषादीन्यष्टौ द्रव्याणि कुट्टयित्वा ज्वलदङ्गारोपरि किञ्चित् किञ्चित दत्त्वा वस्त्रातं ज्वरितं धूपयेदिति । धूपनमधिकारात् विषमज्वरनाशनं सर्व्वज्वरनाशनं वा ।। १९३ ॥ For Private and Personal Use Only चक्रपाणिः - वृषदंशो विडालः ; वृषस्येत्यत्रापि शकृदिति सम्बन्धः । मेध्यानामिति मेदुराणाम्, किंवा पविसाणाम् । व्याघ्रीत्यव लिङ्गमेव प्रयोजकं वचनादुन्नीयते, सिंहो व्याघ्र एवेति वदन्ति । 'भन्जु व्यक्तिम्रक्षणगतिषु' इति पाठात् म्रक्षणमात्रेऽप्यञ्जनं स्यादित्यत आह- नेताञ्जनम्
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy