SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३य अध्यायः] चिकित्सितस्थानम्। २५२१ सान्न मद्यप्रभूतं वा पोत्वा वा तदहः खपेत् । आस्थापनं यापनं वा कारयेद् विषमज्वरे ॥ १८७॥ पयसा वृषदंशस्य शकृद् वेगागमे छ पिबेत् । वृषस्य दधिमण्डेन सुरया वा ससैन्धवम् ॥ १८८॥ पिप्पल्यास्त्रिफलायाश्च दध्नस्तक्रस्य सर्पिषः। पञ्चगव्यस्य पयसः प्रयोगो विषमज्वरे ॥ १८६ ॥ महती मात्रां पीखा पाययिखा च्छद्दयेत्। अथवा प्रभूतमन्नपानमुपयुज्य पुनरुल्ले खयेत् छद्दयेत् ॥ १८६॥ गङ्गाधरः–सान मद्यमित्यादि । अथवा सानमन्त्रसहितं मद्य प्रभूतं बहुलं पीला तदहः ज्वरस्यागमनदिने स्वपेत् सुप्यात् । आर्षमिदं पदमुत्सर्गस्य शपो लुगकरणात् सिद्धम्। अथवा सिद्धिस्थाने वक्ष्यमाणं यापनसंशकमास्थापन निरूह विषमज्वरे कारयेत् ॥ १८७॥ __ गङ्गाधरः–पयसेत्यादि। वृषदंशस्य विड़ालस्य शकृत् पुरीषं शुष्क चर्णीकृतं दोषानुरूपं कर्षादिमानं पयसा गव्येन उष्णदुग्धेन वेगागमे दिने पिबत्। अथवा वृषस्य पुगवस्य शकृत् ससैन्धवं दधिमण्डेन मस्तुना सुरया वा ज्वरवेगागमदिने पिबेत् ॥१८८॥ गङ्गाधरः-पिप्पल्या इत्यादि। विषमे ज्वरे पिप्पल्याः प्रयोगो रसायनोक्तवद्धमानक्रमेण कर्त्तव्यः। त्रिफलायाश्च प्रयोगो मानम् उत्तरोत्तरं वर्द्धयिता कर्तव्यः। तथा दन्नश्च प्रयोगस्तथा तक्रस्य प्रयोगः। पञ्चगव्यस्य सर्पिषो वक्ष्यमाणस्य प्रयोगः। तथा पयसो गव्यदुग्धस्य प्रयोगः कर्तव्यः॥१८९॥ माही तृतीयकचतुर्थको इत्यारभ्य यावद् "अनागते चिकित्सान्तु बलकालौ विजानता" इत्यन्तेन वेगदिनात् प्राग् या चिकित्सोक्ता, सा हि एतादतरोक्ता वमनादिव्यतिरिक्ता ज्ञेया। वमनादयस्विह प्रकोपदिने क्रियमाणाः प्रकुपितस्य दोषस्य कोष्ठमागतस्य सम्यकसिद्धा भवन्तीति कृत्वा ज्ञयाः। साझ प्रभूतं मद्य वा पुनरुल्लिखेदिति योजना, तथा पीतमाखमद्यस्तदहः स्वपेदिति योजना। यापना मुस्तादिका वस्तयो वक्ष्यमाणाः ॥ १८४-१८७ ॥ • वा तदहः इति कचित् पठ्यते । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy