________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५२०
चरक-संहिता। [ज्वरचिकित्सितम् सुरा समण्डा पानार्थे भक्ष्यार्थे चरणायुधाः। तित्तिरिश्च मयूराश्च प्रयोज्या विषमज्वरे ॥ १८३ ॥ पिबेद वा षट्पलं सपिरभयां वा प्रयोजयेत् । त्रिफलायाः कषायं वा गुडच्या रसमेव वा ॥ १८४॥ नीलिनीमजगन्धाश्च त्रिवृतां कटुरोहिणीम् । पिबेज्ज्वरस्यागमने स्नेहस्वेदोपपादितः ॥ १८५ ॥ सर्पिषो महती मात्रां पीत्वा वा च्छईयेत् पुनः। उपयुज्यानपानं वा प्रभूतं पुनरुल्लिखेत् ॥ १८६ ॥
इत्यत आह-प्रयोक्तव्या इत्यादि। मतिमता भिषजा दोषादीन् तस्य पुरुषस्य तस्य ज्वरस्यारम्भकदोषान् अनुबन्ध्यानुबन्धरूपान् रक्तादिकांच धातून प्रविभज्य तदनुरूपेण वितक्यं ते वक्ष्यमाणा विविधा विषमज्वरनाशनाः योगाः प्रयोक्तव्याः, न तु सा योगाः सर्वेषां पुसां सर्वविषमज्वरे प्रयोक्तव्याः ॥१८२॥
गङ्गाधरः-सुरेत्यादि। पानार्थे समण्डा सुरा प्रयोज्या। भक्ष्याथै भोजनव्यञ्जनाथ रसाथ च चरणायुधाः कुक्क टास्तितिरिश्च मयराश्चैते पक्षिणः प्रयोक्तव्याः ॥१८३॥
गङ्गाधरः-पिबेदित्यादि। षट्पलं सपिवक्ष्यमाणम् । अभयां वा केवलाम् । त्रिफलाकषाय वा पथ्याक्षधात्र्यस्त्रिफलाः तस्याः कषायं काथम्। गुड़च्या रसमिति काथं स्वरसं वा ॥१८४॥
गङ्गाधरः-नीलिनीमित्यादि। नीलिनौं वननीलस्य मूलम्। अजगन्धों यमानीम्। चखारि द्रव्याणि काथयिखा पूर्व स्नेहस्वेदाभ्यासुपपादितः ज्वरस्य आगमनदिने पिबेत् ॥१८५॥
गङ्गाधरः-सर्पिष इत्यादि। अथवा स्वच्छस्य सर्पिषो विलायितस्य
चक्रपाणिः-षट्पलमिति गुल्मै वक्ष्यमाणम्। नीलिनी नीलिका, नीलबुला वा; नीलिन्यादिश्च विरेचनयोगो ज्वरागमनदिने विरेकात् कार्यकरो भवति, प्रभावात्। महती माता अहोरातपरिणामिनी या, अन्यत्र तु षट्पली महती मात्रोक्ता । अन्यत्र च 'अन्येयष्को यह.
For Private and Personal Use Only