________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः चिकित्सितस्थानम्।
२५१४ वातप्रधान सपिभिर्वस्तिभिः सानुवासनैः। स्निग्धोष्णैरन्नपानैश्च ® शमयेद् विषमज्वरम् ॥ १७६ ॥ विरेचनेन पयसा सर्पिषा संस्कृतेन च। विषमं तिक्तशीतैश्च ज्वरं पित्तोत्तरं जयेत् ॥ १८०॥ वमनं पाचनं रुक्षमन्नपानं विलकनम् । कषायोषणश्च विषमे ज्वर शस्तं कफोत्तरे ॥ १८१॥ योगाः पराः प्रवक्ष्यन्ते विषमज्वरनाशनाः + ।
प्रयोक्तव्या मतिमता दोषादीन् प्रविभज्य ते ॥ १८२ ॥ षङ्गः प्रायशो विषमज्वरेऽनुबन्धोऽनुगतो भवति। तस्माद् दवव्यपाश्रयेण कर्मणा विहितेन स प्रशाम्यति दोषश्च युक्तिव्यपाश्रयेणेति बोध्यम् ॥१७८॥ __ गङ्गाधरः ननु किं तत्र युक्तिव्यपाश्रयं कर्मत्यत आह-वातेत्यादि । वातप्रधानं विषम ज्वरं सपिभिविषमज्वरहरैः घृतैः पान विधिना युक्तैः शमयेत् । सानुवासनः वस्तिभिः स्नेहवस्ति-विरेचनवस्तिभिश्च शमयेत्। स्निग्धोष्णैरन्नैः पानः पानीयैश्च शमयेत् ॥१७९॥ - गङ्गाधरः-विरेचनेनेत्यादि। पित्तोत्तरं विषम ज्वरन्तु विरेचनेन पयसा पित्तहरद्रव्यशृतेन दुग्धेन संस्कृतेन पित्तहरद्रव्यैः पक्कन सपिषा पित्तहरद्रव्यैः पकदुग्धसमुत्थेन च सर्पिषा तिक्तशीतैश्चान्नपानश्च जयेत् ॥१८०॥ - गङ्गाधरः-वमनमित्यादि। कफोत्तरे विषमज्वरे तु वमनं शस्तं पाचनं दोषपाचनं रुक्षश्चान्न पानञ्च रुक्षम् । विलङ्घनमिति बुभुक्षाया अल्पत्वेऽल्पलङ्घनम् असद्भावे सम्यग्लङ्घनमिति पाचनेऽन्तर्भूतत्वेऽप्यस्य पुनर्वचनं न केवलं रुक्षमनपानं परन्तु कषायोष्णश्च पानञ्च तथा रुक्षञ्चोक्तं शस्तमिति ॥१८१ ॥
गङ्गाधरः-क्रियाक्रममुक्त्वा विषमज्वराणां शमनीयान् योगान् प्रतिजानीतेयोगाः परा इत्यादि। ननु यदि सामान्यतो वक्ष्यन्ते कथं वातादिषु प्रयोक्तव्या रूपकषायपानादिरूपा। 'विषमज्वर'शब्देनेह-तृतीयकचतुर्थकावेवाभिमतौ, न चतुर्थकविपर्ययो। तिक्तशीतैरनुपानभैषज्यैश्चेति विज्ञेयम् । कषायोष्णमिति उष्णकषायः। दोषादीनिति-दोषकालदेशप्रकृत्यादीनि, दोषाद्यपेक्षया यद यत्र यौगिकम्, तत् तत कार्यमित्यर्थः ॥ १७४–१८२॥
अनुपानश्च इति पाठान्तरम् । बक्ष्यामि विविधान् योगान् विषमज्वरनाशवान् इति कचित् पाठः ।
For Private and Personal Use Only