________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५१८
चरक-संहिता। (ज्वरचिकित्सितम विसर्पणाभिघातेन यश्च विस्फोटकैर्ध्वरः। तत्रादौ सर्पिषः पानं कफपित्तोत्तरो न चेत् ॥ १७६ ॥ दौर्बल्याद देहधातूनां ज्वरो जीर्णोऽनुवत्तते। बल्यैः संवृहणस्तस्मादाहारैस्तमुपाचरेत् ॥ १७७॥ कर्म साधारणं जह्यात् तृतीयकचतुर्थको।
आगन्तुरनुबन्धो हि प्रायशो विषमज्वरे ॥ १७८ ॥ • गङ्गाधरः-सपिपानसाध्यवसाधादाह-विसणेत्यादि। विसौं रोगविशेषो वक्ष्यते तेन रोगेण यो ज्वरो भवति, अभिघातेन च यो ज्वरो भवति, विस्फोटकंश्च वक्ष्यमाण रोगविशेषैयो ज्वरो भवति, तत्र तेषु विसाभि घातविस्फोटजेषु ज्वरेषु आदौ पूर्व जातमात्रं सर्पिषः स्वच्छस्य पानम् । इदं वातोत्तरत्वे ज्ञापयति-कफपित्तोत्तरो न चेदिति ॥१७६॥
गङ्गाधरः-दोषजज्वराणां मध्यस्थावस्थाचिकित्सामुक्त्वा जीर्णावस्थाचिकित्सामाह-दौर्बल्यादित्यादि। एवमुपक्रान्तेऽपि यदि जीर्णज्वरो देहधातूनां रक्तादीनां दौर्बल्यादनुवत्तेते न शाम्यति, तदा बल्यैबेलकरैराहारैः संघहणैः सम्यगधातुद्धिकरैश्चाहारैस्तं ज्वरमुपाचरेत् । तेन शाम्यति स ज्वरः ॥१७७॥
गङ्गाधरः-अथ वैषम्यावस्थाचिकित्सामाह-कम्म साधारणमित्यादि। साधारणं कम्मे शारीरखात् दैवयुक्तिव्यपाश्रयम् न तु ज्ञानविज्ञानधैर्यस्मृतिसमाधयश्च दैवयुक्तिव्यपाश्रयञ्चेत्युभयम्। जह्यादिति हापयेदित्योऽन्तर्भत णिजन्तप्रयोगात्। साधारणं कम्मे दैवयुक्तिव्यपाश्रयक्रिया तृतीयकचतुथको हापयेत् ज्वरितमिति शेषः। ननु निजज्वरयोस्तृतीयकचतुर्थकयोः कथं देवव्यपाश्रयक्रिया युज्यते इत्यत आह-आगन्तुरित्यादि। आगन्तुरत्र भूताभि
चक्रपाणि:-विकारान्तरानुबन्धज्वरचिकित्सामाह-विसर्पणेत्यादि। फोत्तरञ्च पित्तोत्तरञ्चति कृत्वैकशेषात् कफपित्तोत्तरत्वं ज्ञेयम् ; किंवा कफपित्तयोः प्रत्येकमिति तयोरुत्तरत्वं ज्ञेयम्, तेनानुत्तरे कफे पित्ते च देयमेव सर्पिः ॥ १७६ ॥
चक्रपाणिः-दौर्बल्यादित्यादौ 'देह ग्रहणेनात्मादीन् व्यावृत्य रसादिषु 'धातु'शब्दं प्रवर्त्तयति । रसादय एव हि विशेषेण देहधारकाः । वृहणं पुष्टिजननम् ॥ १७७ ॥
चक्रपाणिः-मूतानुबन्धिनोस्तृतीयकचतुर्थकयोश्चिकित्सामाह-कर्मेत्यादि। साधारणमिति भूतानुबन्धे दोषे साधारणी चिकित्सा दैवव्यापाश्रया बलिमङ्गलादिरूपा, युक्तिव्यपाश्रया तु दोषानु.
For Private and Personal Use Only