________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५१७
३य अध्यायः] । चिकित्सितस्थानम् । रक्तावसेचनैः पूर्व सर्पिःपानश्च तं जयेत् । प्रदेहः कफपित्तनै वनः कवडग्रहः ॥ १७४ ॥ शीतोष्णस्निग्धरुक्षाद्यज्वरो यस्य न शाम्यति । शाखानुसारी तस्याशु मुञ्चेद् बाह्रोः क्रमात् सिराम् ॥१७५॥
सन्निपातज्वरस्याप्युपद्रवत्वेऽपि दारुणत्वं प्रायशोऽसाध्यवाभावात्तु नोपदेशः कृतः। सन्निपातज्वरस्यान्ते प्रशमानन्तरं यः कर्णमूले शोथः संजायते स दारुणस्तेन च कश्चिदव प्रमुच्यते मायेण म्रियते न तु प्रायेण मुच्यते कश्चित् म्रियते इति। ननु यः कश्चिन्मुच्यते स किं स्वयमेव मुच्यते किं भेषजेनेत्यत आह-रक्तेत्यादि। पूर्व जातमात्रमग्रे रक्तावसेचनैः जलौकापातनेन शृङ्गालाब्बादिना रक्तमोक्षणैस्तथा सर्पिषां पिप्पल्यादिघृतादीनां ज्वरोक्तानां पानः कफपित्तघ्नः प्रदेहैः कफपित्तघ्नः नावनैः कफपित्तन : कवडग्रहश्च तं शोथं जयेत् ॥१७४॥
गङ्गाधरः-नन्वेवमुपक्रान्ते यस्य ज्वरो न शाम्यति तस्य किं कार्यमित्यत आह-शीतोष्णेत्यादि। यस्य ज्वरः उष्णकृतः शीताभिप्रायो ज्वरो यस्य शीतस्निग्धादिभिः कर्मभिने शाम्यति, शीतकृतश्चोष्णाभिप्रायो ज्वरो यस्य उष्णरुक्षादिभिः कम्मभिर्न शाम्यति तस्य शाखानुसारी रक्तानुसारी स क्षे यः, रक्तस्य अवसेकात् बाह्रोः सिरां क्रमात् विद्धा रक्तस्य मोक्षणं कुर्यात् ; तेनाशु स ज्वरः प्रशाम्यति ॥१७५॥
दारुणसम्मताः। ये हन्युरनुपक्रान्ता मिथ्याचारेण वा पुनः” इति ; किंवासाध्य एवायं रोगो भवति, कश्चित् तु कृच्छ्रसाध्य इति । ननु त्रिशोथीये “ज्वरान्ते दुर्जयोऽन्ताय शोफस्तस्योपजायते" इत्यनेनामुपक्रमणीयत्वमस्योक्तम्, इह तु कश्चिदेव प्रमुच्यते इत्युक्तम्, तत् कथं न विरोधः ? मैवम्, तथाहि तत्रापि दुर्जयो भवति अन्तायैवेत्यर्थोऽतो न विरोधः ॥ १७४॥
चक्रपाणिः-"शाखानुसारी" इत्यत्र यद्यपि “शाखा रक्तादयो धातवः” इत्युक्तम्, तथापीह रक्तदूषको विशेषेण ज्वरो ज्ञेयः। रक्ताश्रय एव दोषे रक्तमोक्षस्य विशेषेण समर्थत्वात् रक्तमोक्षस्य स्थानं बाहुमध्यञ्च ज्ञेयम् , यदुक्तमन्यत "शीतोष्णस्निग्धरुक्षाद्य ज्वरो यस्य न शाम्यति । शाखानुसारी तस्याशु विध्येद् बाह्वोः क्रमाच्छिराः" इति ; शीतोष्णसेवादिवचनात्, सकलदोपानुरूपचिकित्सादिक्रमे सति रक्तदुष्टयव प्रायो ज्वरानुबन्धो भवतीति दर्शयति ॥ १७५ ॥
३१६
For Private and Personal Use Only