________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५१६
चरक-संहिता। [ज्वरचिकित्सितम् सन्निपातजरस्यान्ते कर्णमूले सुदारुणः।
शोथः संजायते तेन कश्चिदेव प्रमुच्यते ॥ पातज्वरे पूर्व कुर्यादामकफापहम् । ततः श्लेष्मणि संक्षीणे शमयेत् पित्तमारुतो" इति ख्यापितम्। पूर्व कर्फ जयेत् ततः पित्तं ततो वातमित्यर्थः ॥१७३॥
गङ्गाधरः-सप्तविधदोषजज्वरस्य चिकित्सामुक्त्वा सन्निपातज्वरोपद्रवमाह-सन्निपातज्वरस्यान्ते इत्यादि। यद्यपि दृश्यते ज्वरस्य सहजो मध्यजश्व कणेमूलशोथस्तथापि तस्य तस्य शोथस्यान्यज्वरोपद्रवलात्
प्रसक्तिनिरासाथ समसन्निपाते प्रोच्यते ; ज्वरादन्यत्र दि सन्निपाते सम एव वातः पूर्ण चिकित्स्यते ; उक्तं हि-“वातस्यानु जयेत् पित्तं पित्तस्यानु जयेत् कफम्" इत्यादि। यस कफस्थानानुपूठा तु चिकित्सिते क्रियमाणे यो दोष उल्वणो भवति, तत्र वर्द्धनेनैकदोषस्य क्षपणेनोच्छितस्य वा इति चिकित्सा कार्या। एतदेव भेलेनोक्तम् ;-"सग्निपातज्वरे पूर्व कुर्य्यादामकफापहम् । पश्चात् श्लेष्मणि संक्षीणे शमयेत् पित्तमारुतौ” इति ; रात्र च पित्तानुपूर्व्या जयेदित्यर्थः । सदर्थानुवादकरच सुश्रुते वचनं पठन्ति,-शमयेत् पित्तमेवादौ ज्वरेषु समवायिषु। दुर्निवारतम तद्धि ज्वरार्तेषु विशेषतः" इति, तत्र एतदभिधानं हि स्पष्टार्थम्, पित्तानुपूव्यव जयेत् ; सुश्रुतवचनं हि जीर्णत्रिदोषज्वर ...ण ज्ञेयम्, एतच्च प्रथमोत्पनसन्निपातज्वरचिकित्सितं कफस्थानानुपूठा ज्ञेयम् । ये तु कफश्च स्थानन्चेति द्वन्द्व कुर्वते, तेषां मतेन कफस्यामाशयस्य च ज्वरस्थानस्य पूर्व जयः कर्त्तव्य इत्यर्थः । स च षष्ठीतत्पुरुषेऽपि स्थानस्यामाशयस्य स्थानिकफापेक्षया क्रियमाण चिकित्सापि लभ्यत एवेति नार्थविरोधः। इयञ्च कदोषवर्द्धनादिरूपा सन्निपातचिकित्सा यद्यपि म विशुद्धा, यदुक्तम् -"प्रयोगः शमयेद व्याधिं यद्यप्यन्यमुदीरयेत् । नासौ विशुद्धः शुद्धस्तु शमयेन प्रकोपयेत्” ; तथापि सन्निपातचिकित्सायां गत्यन्तरासम्भवे सति, अल्पदोषबहुगुणतया क्रियते इति ज्ञेयम् । अन्ये तु, 'वर्द्ध'च्छेदन इत्यस्मात् 'वर्द्धनम्' इति साधयित्वा 'वर्द्धन'शब्देन च मूलच्छेदकारकं संशोधनमुच्यते, 'एक'ग्रहणेन च न युगपद्वातादीनां वम्यादि शोधनं कर्त्तव्यम्, किन्त्वेककेनेति दर्शयति ; क्षपणेनोचि तस्येत्यनेन संशोधनाविषये संशमनम् उच्यते, शेषस्य तु व्याख्या पूर्ववत् । अनेन श्लोकेन त्रयोदशविधसन्निपातारब्धे ज्वरे चिकित्सितम् उक्तं भवति । क्षीणवृद्धदोषविकल्पकृतषड् विधसन्निपातेषु यो ज्वरस्तत्र स्वमानक्षीणस्य तु न ज्वरारम्भकरवमेव, तेन, न केवलं तत्र वृद्धस्य दोषद्वयस्यैकस्य वा वृद्धस्य ज्वरारम्भकस्य चिकित्सा कार्या, किन्तु समानक्षीणवर्द्धनमपि तत्र कर्तव्यं भवतीति स्वमानक्षीणद्वादशसन्निपातस्य ज्वरारम्भकत्वमेव ॥ १७॥१७३ ॥
चक्रपाणिः सन्निपातप्रस्तावात् तज विशोथीयोक्तशोथमनूध चिकित्सामाह-सशिपातेत्यादि । कश्चिदेव प्रमुच्यते इत्यनेन दारुणत्वमस्य दर्शयति । उक्तं हि "सन्ति येवंविधा रोगाः साध्या
For Private and Personal Use Only